This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 
५३
 
चेतनान् सुखं सूते । अन्तर्वत्न्यः स्त्रियो आसन्नप्रसवा न

कम्पचलनादिकं सहेरन्निति प्रसिद्धम् । दंष्ट्राङ्कुरकोटिलग्नेयं

कोटिसहस्रप्रजाः सूते यथा मुस्ता तद्दंष्ट्राङ्कुरे लग्ना
 

दृश्येत, तथा विश्वंभरा तत्र दृश्यते । किमु वाच्यं तस्य

निरतिशयबृहत्त्वे । तस्य विश्वशरीरत्वं सम्यगध्यक्ष्यते ।

तत्तद्योनिस्वभावोऽप्यहेयो भगवता तत्र तत्रावतीर्णेन । व
-
राहा नागासधमुद्रादौ विहरेयुः । पल्वलादौ पडिङ्किलजले

खुरदन्घ्ने जानुदघ्ने वा विहरणं तेषां स्वभावः ।
विस्रब्धं

क्रियतां वराहततिभिर्मुस्ताक्षतिः पल्वले ' इति कविसार्वभौ-

मः । अत्रोच्यते । अयं ब्रह्मवराहः । अस्य खुरदन्घ्न एव

जले अयं विहरति । महोदधिरस्य खुरदन्घ्न इति प्रदर्श्यते

आचार्यैः । 'कापि कल्पान्तवेशन्ते खुरदन्घ्ने समुद्धृताम् ।

हते मेदिनीमुस्तां महते पोत्रिणे नमः ॥' इति सङ्कल्पसू-

र्यो
दये ॥
 
1
 
1
 

 
गोपायेदनिशं जगन्ति । नावतारकालिकरक्षणमात्रात्तृ-
ध्

प्
याम: । अनिशं रक्ष्येमानेन ब्रह्मवराहेण । 'हरेर्घृतक्रोडत-

नोः स्वमायया' इति श्रीभागवते । देवीमात्ररक्षणेन न स-

न्तुष्यामः । एतद्रूपप्रदर्शनेन सर्वाणि जगन्त्व्यव्यात् ॥