This page has been fully proofread once and needs a second look.

५२
 
श्रीमद्वेदान्तदेशिक स्तोत्राणि ।
 
गोपायेदनिशं जगन्ति कुहनापोलीत्री पवित्रीकृत-

ब्रह्माण्डः प्रलयोर्मिंमिघोषगुरुभिर्घोणारवैर्घुर्घुरैः ।
यहूं

यद्द्र
ष्ट्राङ्कुरकोटिगाढघटनानिष्कम्पनित्यस्थिति-

र्
ब्रह्मस्तम्बमसौदसौ भगवती मुस्तेव विश्वंभरा ॥
 
अ-

 
नष्टा श्रीलब्धा कूर्मवपुषा । नष्टा भूमिर्लभ्यते वराहवपुषा ।

तस्यां भूयान्बहुमानो भगवतः । वक्षःस्थलेन वरुणालयराज-

कन्यां संभावयति । भूमिं तु शेषात्मना सहस्त्रैः शिरोभिर्द-

धति । तद्भारापनयनाय भूयोऽवतरति श्रिया सह ।
व्यघि
'अ-
प्यङ्घ्रि
संभव उरुक्रमविक्रमाद्वा आहो वराहवपुषः परिरम्भ-

णेन' इत्युक्तरीत्या नष्टां भूदेवीमानीय परिरब्धं वराहवपुः
-
परिग्रहो युक्तः । अस्य वराहस्य निरतिशयबृहत्त्वं श्रीभागवते

स्फुटं वर्ण्यते । 'यस्यायुतशतैकांशे विश्वशक्तिरियं स्थिता'

इतिवद्विश्वस्य भगवद्दंष्ट्राकुरकोटिलग्नत्वप्रदर्शनेन समस्तजग-

तः शरीरत्वरूपाधेयत्वं प्रदर्श्यते । भगवतो निरतिशयबृहत्त्वं

विचित्रं व्यज्यते । अस्य वराहस्य घोणारवा: प्रलयोर्मिघोष-

मभिभवन्ति । अस्य दंष्ट्राया अङ्कुरस्य कोटौ लग्ना विश्वं-

भरा । तेन गाढघटिता, अतः परमकम्पनीयां नित्यां स्थिति
तिं
लभते । निष्कम्पत्वं निदइर्र्श्यते चतुर्थेन पादेन । तथा निश्चलां

स्थितिं लभते ; यथा सा आब्रह्मास्तम्बपर्यन्तं कृत्स्नचेतना-
-
 
I