This page has not been fully proofread.

५२
 
श्रीमद्वेदान्तदेशिक स्तोत्राणि ।
 
गोपायेदनिशं जगन्ति कुहनापोली पवित्रीकृत-
ब्रह्माण्डः प्रलयोर्मिंघोषगुरुभिर्घोणारवैर्घुर्घुरैः ।
यहूंष्ट्राङ्कुरकोटिगाढघटनानिष्कम्पनित्यस्थिति-
ब्रह्मस्तम्बमसौदसौ भगवती मुस्तेव विश्वंभरा ॥
 
अ-
नष्टा श्रीलब्धा कूर्मवपुषा । नष्टा भूमिर्लभ्यते वराहवपुषा ।
तस्यां भूयान्बहुमानो भगवतः । वक्षःस्थलेन वरुणालयराज-
कन्यां संभावयति । भूमिं तु शेषात्मना सहस्त्रैः शिरोभिर्द-
धति । तद्भारापनयनाय भूयोऽवतरति श्रिया सह ।
व्यघिसंभव उरुक्रमविक्रमाद्वा आहो वराहवपुषः परिरम्भ-
णेन' इत्युक्तरीत्या नष्टां भूदेवीमानीय परिरब्धं वराहवपुः
परिग्रहो युक्तः । अस्य वराहस्य निरतिशयबृहत्त्वं श्रीभागवते
स्फुटं वर्ण्यते । 'यस्यायुतशतैकांशे विश्वशक्तिरियं स्थिता'
इतिवद्विश्वस्य भगवदंष्ट्राकुरकोटिलग्नत्वप्रदर्शनेन समस्तजग-
तः शरीरत्वरूपाधेयत्वं प्रदर्श्यते । भगवतो निरतिशयबृहत्त्वं
विचित्रं व्यज्यते । अस्य वराहस्य घोणारवा: प्रलयोर्मिघोष-
मभिभवन्ति । अस्य दंष्ट्राया अङ्करस्य कोटौ लग्ना विश्वं-
भरा । तेन गाढघटिता, अतः परमकम्पनीयां नित्यां स्थिति
लभते । निष्कम्पत्वं निदइर्यते चतुर्थेन पादेन । तथा निश्चलां
स्थितिं लभते ; यथा सा आब्रह्मास्तम्बपर्यन्तं कृत्स्नचेतना-
-
 
I