This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
५१
 
न्तीति प्रसिद्धम् । ' तल्पं कलनान्तयूनः ।' अत्र श्रुतिरूपनि
श्वसितसंस्कृतमयः पर्यङ्कीभवति । ४. प्रेङ्खोलपर्यङ्किका सद्य:
प्रादुर्भूतया नववध्वा श्रिया सह शयनायातीव भोग्या स्यात् ।
चन्द्रस्तदानीमेवोत्पन्नः । अमृतं च नवं प्रभूतम् : चिरविर
हिता नवा वधूर्वक्षस्थलमारूढा पश्यतां सर्वदेवानाम् । तथा
सह नित्यमेव कूर्मत्वेन पर्यङ्किकामारुह्य निर्वृणोति । आरूढ-
या सह देव्या पर्यकारोहः । ५. यथा वक्षःस्थलारोहो नित्य-
स्तथा तथा सह पर्यङ्कारोहोऽपि नित्यः । कूर्मावतारस्यावता-
रान्तरत्ववत्कालावच्छेदो मास्तु । श्वशुरगृहे श्रीराब्धावेवायम-
वतारः । नवां रक्तां वधूं प्रेोलपर्यकां च लब्ध्वा नित्या-
रोहमेव काङ्क्षतीति नित्यशब्देन व्यज्यते । पर्यकोऽतिस्वच्छ-
श्वेतपटैराव्रियेत । पयःपर्यङ्के तत्साम्यं सुलभम् । ६. डोला-
सेवा वृत्ता। इदानीं पर्यङ्कसेवा लभ्यते भक्तजनैः ॥
 

 
de
 
सहैव श्रिया । यदर्थ मम्भोधिरमन्थि तां श्रियमसितेक्षणां
विना क्षणमपि न जीवेत् । कूर्मवपुरिति नोद्विजते सा ।
तत्रिं नित्यं कामयते । तदूपुश्च तस्या नित्यं रोचते । वेदप्रा-
त्यनन्तरं स्थितप्रज्ञो वेदार्थं ध्यायेत् पुरुषः । यदा संहरते
चायं कूर्मोऽङ्गानीव सर्वशः : ' इति कूर्मसादृश्यं प्रत्याहरण-
&
 
व्यावृतस्य ध्यातुः ॥
 
-