This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोवाणि ।
ज्ञाप्यते । अनेनाप्र मेयत्वरूपबृहत्वं व्यज्यते ॥
 
निद्राणस्य परस्य कूर्मवपुषः । न केवलं कण्डूत्यपना-
यकत्वमयावर्तनस्य । निद्राहेतुत्वमपि ॥
 
निश्वासवातोर्मयः । १. पूर्वमपहृतवेदोद्धारः । इदानीं
स्वनिश्वसितैर्वेदुनिश्चारणम् । २. अस्य महतो भूतस्य निश्व-
सितमित्यादिश्रुतिः कूर्मविषयिणीव । महान् भूत: कूर्मः
स्यात् । विष्णुरिदं महद्भूतम् । ३. महान्क्षोभः समुद्रस्यैत-
निश्वासवातजनिततरङ्गैः । न तथा क्षोभोऽद्रिणा मथनेन Į
४. कूर्मनिश्वसितभूता वेदा भुवनत्रयमवन्ति धर्मोपदेशेन ।
धर्मेण लोको प्रियेत ॥
 

 
-
 
यद्विक्षेपणसंस्कृतोदधिपयः प्रेोलपर्यङ्किकानित्यारो
हणनिर्वृतः । १. पूर्व मथनेनाप्यसंस्कृत उदधिः । प्राकृतः
पूर्वम् । इदानीं वेदरूपनिश्वसितरचितोर्मिंविक्षिप्तः संस्कृतो
भवतीति व्यज्यते । निश्वसितोर्मिविक्षेपणैः संस्क्रियते उद.
घिः । वेदद्वाततरङ्गैः स संस्कृतीकियत इव । २. डोलारूढा
पूर्वश्लोके । इदानीमान्दोलितपर्यङ्कारोहो योगनिद्रा सौ कर्याय
३. वेदमन्त्रभूतः संस्कृत: पर्यक उचितो धर्मसंस्थापनार्थम-
वतीर्णयोः सनातनधर्मस्वरूपदम्पत्योः । श्रुतयः शय्या भव-