This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
४९
 
त्प्रालेयांशुः क्वचिदमृतविष्फूर्जितमिति अतिक्षोभे सिन्धो-
!
रयमनघनिद्रो धृतगिरिर्विषादं देवानां विघटयति वैकुण्ठक-
मठः ॥ ' इति । नष्टद्रव्यरूपोचैःश्रवसैरावतकल्पवृक्षादिलाभे
तुमुल: शब्दो देवगणानां भवेत् । अब्धिरत्यन्तं क्षुभितः ।
धूतगिरिरयं वैकुण्ठकमठोऽनघं निद्राति । अयं कमठो सर्व-
प्रकारैरकुण्ठो वैकुण्ठो ब्रह्मकमठ इति को वा विप्रतिपद्येत ।
यद्यप्यय मसुरान्वञ्चयति मोहनावतारेण, न तेषां हननमस्मिन्न-
वतारे । ईदृशविचित्राघटितघटको भगवानेकमेव विघटयति ।
किं तदिति चेत् ' विषादं देवानां विघटयति । '
 
अव्यासुः । पूर्व मात्स्यवपुषः प्रार्थनम् । अत्र निद्राण-
कूर्मदीर्घनिश्वासाः प्रार्थ्यन्ते । निश्वासैरस्मत्प्राणनं सुलभं
खलु । प्राणनैः प्राणनं सुकरम् । प्राणभूतः परमात्मा
प्राणान् जीवान् जीवयति । 'प्राणा वै सत्यं तेषामेष सत्यम् ॥'
 
भुवनत्रयीम् । पूर्वावतारेण वेदरूपवर्या रक्षिता । अने-
नापरा त्रयी त्रिभुवनरूपा रक्ष्यत इति व्यज्यते । 'वेदः
'लोकः' इति भेदो व्यवहारसिद्धः ॥
 
अनिभृतं कण्डूयनैरद्रिणा 'विभ्रत्सदावर्तनमादिक-

च्छपो मेनेऽङ्गकण्डूयनमप्रमेयः' इति शुकानुभव: प्रत्यभि-