This page has been fully proofread once and needs a second look.

४८
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
वीक्षणैः पातु नः । वीक्षणै: स्वप्रजाः संवर्धयन्ति मत्स्या

इति प्रसिद्धम् । 'ईक्षणध्यान संस्पर्श प्रमुखैः पोषयन्प्रजाः ।

मत्स्यकूर्मविहङ्गादिविग्रहः प्रेक्ष्यते प्रभुः । ' इति सङ्कल्पसू-

र्योदये । मात्स्यं वपुरिदानीमपि मनुराराधयतीति भागवते ॥
 

 
अव्यासुर्भुवनत्रयीमनिभृतं कण्डूयनैरद्रिणा

निद्राणस्य परस्य कूर्मवपुषो निश्वासवातोर्मयः ।

यद्विक्षेपणसंस्कृतोदधिपयः ग्रेोप्रेङ्खोलपर्यङ्किका-

नित्यारोहणनिर्वृतो विहरते देवः सदैव श्रिया ॥३॥
 

 
कूर्मवपुषो बृहत्त्वाधारत्वामृत हेतुत्वादिवर्णनम् । स्वपृष्ठे

मन्थाचल आरोपितः । स चातिवेगं बम्भ्रम्यते त्रयस्त्रिं-

शत्कोटिदेवैर संख्यैरसुरैश्च इतस्तत आकृष्टोऽब्धिमथनाय ।

सहजशत्रवः सुरासुरा: स्पर्धमाना अधिकमधिकं बलमुष-

युञ्जते कर्षणे । मथनेनातिक्षुब्धः सिन्धुः । तुमुल: शब्दः ।

'दधार पृष्ठेन स लक्षयोजनप्रसारिणा द्वीप इवापरो महान्'

इति कमठपृष्ठस्यातिबृहत्वम् । मन्थभूतस्याद्रेः स्वपृष्ठे भ्रम
णं
पामकण्डूयनरूपसुखाय भवत्यस्याप्रमेयस्य । अनन्तरं तज्ज-

नितसुखेनानघां निद्रामावहति । एतद्विचित्रं प्रदशर्र्श्यते सङ्कल्प -

सूर्योदये 'क्वचिद्वाहाधीशः क्वचिदमरदन्तावलपतिः क्वचि-