This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 
अन्तस्तन्वदिवारविन्दगहनान्यौदन्वतीनामपाम् । अ-

न्तर्जले पद्मवनानि सृज्यन्ते डोलामलंकर्तुम् । लवणाम्भसि

पद्मान्यन्त: सृज्यन्ते । तन्वच्छ्रब्देन 'शुभमातनोतु' इति

पूर्वश्लोकप्रार्थितं तत्क्षणमेव करुणामयेनान्वर्थीक्रियत इति

व्यज्यते । शुभं डोलोत्सवं पद्मैस्तदलंकरणादिकं च तन्वदिव।

कातिङ्क्षितशुभं तन्यते ॥
 
४७
 

 
निष्प्रत्यूहतरङ्गरिङ्णमिथ: प्रत्यूढपाथञ्श्छटाडोलारो-

हसदोहलम् । तरङ्गाः सहजा: समुद्रस्य भगवद्रूपमहामत्स्यवि-

हारजनितहर्षेण भूयानानन्दक्षोभो भवति । निरतिशयबृह-

न्
मत्स्यशरीरक्षोभजनिता यद्यपि तरङ्गा नेतरेण प्रत्यूह्मेरंस्ते

इतरेतरं मिथ: प्रत्यूढा डोलां निर्वर्तयन्ति । समुद्रे वेगं

यान्तो बृहन्तो धूमनावः सततं डोलायन्त इत्यनुभवसिद्धम् ।

तत्र डोलायितत्वं तरङ्गरिङ्खणमिथःप्रत्यूढपाथश्छटाभि: ।

एष एवानुभव: आचार्यै : सम्यक्प्रदशर्यत इति रसिकैर्विभा-

व्यम् ॥
 

 
मात्स्यं वपुः पातु नः । डोलारोहोत्सवे वयमिमं मङ्ग-

लश्लोकं गायाम: । विभववपुः प्रदर्शनं विचित्रडोलारोहोत्स-

वप्रदर्शनं चास्मत्परित्राणम् । तद्विवक्ष्यते 'पातु' इति ।