This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
अन्तस्तन्वदिवारविन्दगहनान्यौदन्वतीनामपाम् । अ-
न्तर्जले पद्मवनानि सृज्यन्ते डोलामलंकर्तुम् । लवणाम्भसि
पद्मान्यन्त: सृज्यन्ते । तन्वच्छ्रब्देन 'शुभमातनोतु' इति
पूर्वश्लोकप्रार्थितं तत्क्षणमेव करुणामयेनान्वर्थीक्रियत इति
व्यज्यते । शुभं डोलोत्सवं पस्तदलंकरणादिकं च तन्वदिव।
कातिशुभं तन्यते ॥
 
४७
 
निष्प्रत्यूहतरङ्गरिङ्गणमिथ: प्रत्यूढपाथञ्छटाडोलारो-
हसदोहलम् । तरङ्गाः सहजा: समुद्रस्य भगवद्रूपमहामत्स्यवि-
हारजनितहर्षेण भूयानानन्दक्षोभो भवति । निरतिशयबृह-
मत्स्यशरीरक्षोभजनिता यद्यपि तरङ्गा नेतरेण प्रत्यूरंस्ते
इतरेतरं मिथ: प्रत्यूढा डोलां निर्वर्तयन्ति । समुद्रे वेगं
यान्तो बृहन्तो धूमनावः सततं डोलायन्त इत्यनुभवसिद्धम् ।
तत्र डोलायितत्वं तरङ्गरिङ्खणमिथःप्रत्यूढपाथश्छटाभि: ।
एष एवानुभव: आचार्यै : सम्यक्प्रदशर्यत इति रसिकैर्विभा-
व्यम् ॥
 
मात्स्यं वपुः पातु नः । डोलारोहोत्सवे वयमिमं मन-
लश्लोकं गायाम: । विभववपुः प्रदर्शनं विचित्रडोलारोहोत्स-
वप्रदर्शनं चास्मत्परित्राणम् । तद्विवक्ष्यते 'पातु' इति ।