This page has been fully proofread once and needs a second look.

४६
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
त्स्यं वर्णयंस्तद्वीक्षणैर्जितो भवत्याचार्य । अन्तर्जले मत्स्याक्षी-

मामेव प्रसरसंभवः । २. क्षणशब्दोऽवधानार्थकः, उत्सवा-

र्थकश्च । मार्गणावधानव्याजेनास्माकमुत्सव प्रदैः मार्गणदशायां

दत्तोत्सवैः । ३. श्रुतयः सर्वा अपि निःशेषं मनाः । श्रुतयः

पुत्रस्य ब्रह्मणः, प्रजानां सर्वलोकानां च चक्षूंषि । 'वेदा मे

परमं चक्षुः' इति रुरोद ब्रह्म । प्रजाचक्षूंषि वेदाः भग-

द्वीक्षणैरन्विष्यन्ते । ४. ननु कथमयं सर्वज्ञमत्स्य: जाल-

मन्विष्यतीत्युच्यते । भ्रान्ता मूढा मत्स्या बडिश भक्षणाय

जालसमीपं गच्छन्ति, बद्ध्यन्ते म्रियन्ते चेति चेत् -- अयं

परमकारुणिको मत्स्य : श्रुतिजालं मार्गते, तेन बद्धो भूत्वा

जनश्रवणेषु प्रविश्य तद्दाद्वारा तानुज्जीवयितुं च । एतद्व्यञ्जयति

श्रुतिजालमार्गणेत्युक्ति: । ५. श्रवणस्य जले मन्ग्नतायां निः-

शब्दतानुभवः सहजः । लोकश्रवणभूतश्रुतौ जले निर्मभेस-
ग्ने स-
शब्दता निवृत्ता भवति । ६. शब्दराशेरन्तर्जले मज्जने

तस्यात्यन्तं मृग्यता स्यात् । तद्द्योत्यत इव निर्मग्नशब्देन 1

७. ' मत्कुणाविव पुरा परिपुप्लवौ सिन्धुनाथशयने निषेदुषः ।

गच्छतः स्म मधुकैटभौ विभोर्यस्य नैद्रसुखविन्घ्नतां क्षणम् ॥'

इति माघे क्षणशब्दप्रयोगो मात्स्यवपुर्वर्णने । तस्य क्षणश-

शब्दस्यात्र विचित्र: प्रयोगः प्रदर्श्यते ॥