This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 
शेषविद्यासंपदुपलम्भिनीमभूतपूर्वबहुविधभूमिकापरिग्रहेऽप्य

तिरस्कृत पारम्यामनवबोधजलधि कुक्षि षिंभरीमनन्यभक्त्युन्मीलि-

तामादिमां देवतामभ्युपगच्छामि' इति । अत्र भगवदनेक-

नाटकवर्णनप्रकरणे तन्नमस्क्रिययावतारवर्णनोपक्रमः स्वादुत-

मः कवीनाम् । ' एतस्मिन्नन्तरे राजन् देवो हयशिरोधरः ।

जग्राह वेदानखिलान् रसातलगतान् हरिः । प्रादाञ्च्च ब्रह्मणे

राजन् ततः स्वां प्रकृतिं ययौ ॥' इति स्तोत्रभाष्योदाहृत-

भगवच्छास्त्रवचनान्यत्र भाव्यानि । मधुकैटभाविति मूर्त-

रजस्तमसी ज्ञानमयान्वेदानपजह्नतुः । रजस्तमसी निरस्य

सत्त्वमयवेदसंप्रदायप्रवर्तको मधुसूदनः । ज्ञानसंप्रदायप्रवर्त-

कत्वाद्गीताचार्यस्तन्नाम्ना भूयो निर्दिश्यते संबोध्यते गीता-

शास्त्र इति भाव्यम् । नष्टं योगं पुनः प्रवर्तयति गीतया ।

तथा चोक्तं स्वेनैव 'स कालेनेह महता योगो नष्टः परं-

तप । स एवायं मया तेऽद्य योग: प्रोक्तः पुरातनः ॥
'
शास्त्रारम्भे ' उवाच मधुसूदनः' इति । 'योऽयं योगस्त्वया

प्रोक्तः साम्येन मधुसूदन ' इत्याचार्यसंबोधनं शिष्येण । मधु-

सूदनश्च विद्यामूर्तिः श्रीहयवदनः । लक्ष्मीहयग्रीवपरब्रह्मणे

नम इति प्रथममङ्गलपाठः सर्वेषु द्वैतप्रन्थेषु ॥
 

 
निर्मग्नश्रुतिजालमार्गणदशादत्तक्षणैर्वीक्षणैः । १. म-
४३.