This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
शेषविद्यासंपदुपलम्भिनीमभूतपूर्वबहुविधभूमिकापरिग्रहेऽप्य
तिरस्कृत पारम्यामनवबोधजलधि कुक्षि भरीमनन्यभक्त्युन्मीलि-
तामादिमां देवतामभ्युपगच्छामि' इति । अत्र भगवदनेक-
नाटकवर्णनप्रकरणे तन्नमस्क्रिययावतारवर्णनोपक्रमः स्वादुत-
मः कवीनाम् । ' एतस्मिन्नन्तरे राजन् देवो हयशिरोधरः ।
जग्राह वेदानखिलान् रसातलगतान् हरिः । प्रादाञ्च ब्रह्मणे
राजन् ततः स्वां प्रकृतिं ययौ ॥ इति स्तोत्रभाष्योदाहृत-
भगवच्छात्रवचनान्यत्र भाव्यानि । मधुकैटभाविति मूर्त-
रजस्तमसी ज्ञानमयान्वेदानपजहतुः । रजस्तमसी निरस्य
सत्त्वमयवेदसंप्रदायप्रवर्तको मधुसूदनः । ज्ञानसंप्रदायप्रवर्त-
कत्वाद्गीताचार्यस्तन्नाम्ना भूयो निर्दिश्यते संबोध्यते गीता-
शास्त्र इति भाव्यम् । नष्टं योगं पुनः प्रवर्तयति गीतया ।
तथा चोक्तं स्वेनैव 'स कालेनेह महता योगो नष्टः परं-
तप । स एवायं मया तेऽद्य योग: प्रोक्तः पुरातनः ॥
शास्त्रारम्भे ' उवाच मधुसूदनः' इति । 'योऽयं योगस्त्वया
प्रोक्तः साम्येन मधुसूदन ' इत्याचार्यसंबोधनं शिष्येण । मधु-
सूदनश्च विद्यामूर्तिः श्रीहयवदनः । लक्ष्मीहयग्रीवपरब्रह्मणे
नम इति प्रथममङ्गलपाठः सर्वेषु द्वैतप्रन्थेषु ॥
 
निर्मग्नश्रुतिजालमार्गणदशादत्तक्षणैर्वीक्षणैः । १. म-
४३.