This page has been fully proofread once and needs a second look.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
ब्रह्म वनं ब्रह्म स वृक्ष आसदितो द्यावापृथिवी निष्टतक्षत्'

इत्युत्तरयति । भक्तच्छन्दानुवर्ती भगवान् स्वयं डोलारो-

होत्सवं निर्वर्तयति । अस्मद्दोहदमनु तस्य दोहदो जायते ।

का डोला भवेदस्य महतो भूतस्य । मात्स्यं वपुर्द्वीप इव

भवति । स्ववपुषा मकरालयं संक्षोभ्यात्युच्चदीर्घाघांस्तरङ्गानुत्पा-

दयति । ते च तरङ्गा यद्यप्यन्यतो निष्प्रत्यूहा मिथ: प्रत्यूढा

भवन्ति डोलासंपादनाय । उत्सवडोला पभैद्मैरलंकृता स्यात् ।

कुतोऽस्या: समुद्रतरङ्गडोलाया: पद्मानि संपाद्येरन् । अन्त:-

समुद्रे कथं तेषां संभवसंभवः । का गतिः । तत्कटाक्षा एव

गतिः । तान्यपि विरच्यन्ते भगवत्कटाक्षैः । पुण्डरीकाक्षस्य वी-

क्षणै: पद्मवनानि सृज्यन्तेऽन्तः समुद्रे लवणमर्यायीष्विप्सु । भगव
-
द्वपुरेव डोलोत्सवसामग्रीरीं कृत्स्नां स्वयं संपादयति ।

मीनस्याक्षीण्युपमानत्वेन प्रसिद्धानि । यदि पुण्डरीकाक्षो

मीनो भवेत्तद्वीक्षणैर्विचित्रपद्मवनसृष्टौ कः संशयीत ।


मत्स्यावतारस्यातिबृहत्वं प्रपन्नजनानन्दसन्दोहप्ग्रथनं च चारु

वर्ण्यतेऽत्र रसिकमनोहारितया । मत्स्यावतारो श्रीमद्धयवद-

नावताराभिन्नः । 'मत्स्याश्वकच्छपवराह--' इति श्री.
-
भागवते मत्स्याश्वयोरेकीकृत्य सहपठनम् । श्रीहयग्रीवं नमः
 
म-
श्चक्रे
सङ्कल्पसूर्योदय प्रथमाङ्के नाटकमारिप्समानः तदहम-
४४
 
6