This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
ब्रह्म वनं ब्रह्म स वृक्ष आसदितो द्यावापृथिवी निष्टतक्षत्'
इत्युत्तरयति । भक्तच्छन्दानुवर्ती भगवान् स्वयं डोलारो-
होत्सवं निर्वर्तयति । अस्मद्दोहदमनु तस्य दोहदो जायते ।
का डोला भवेदस्य महतो भूतस्य । मात्स्यं वपुर्द्वीप इव
भवति । स्ववपुषा मकरालयं संक्षोभ्यात्युच्चदीर्घास्तरङ्गानुत्पा-
दयति । ते च तरङ्गा यद्यप्यन्यतो निष्प्रत्यूहा मिथ: प्रत्यूढा
भवन्ति डोलासंपादनाय । उत्सवडोला पभैरलंकृता स्यात् ।
कुतोऽस्या: समुद्रतरङ्गडोलाया: पद्मानि संपाद्येरन् । अन्त:-
समुद्रे कथं तेषां संभवसंभवः । का गतिः । तत्कटाक्षा एव
गतिः । तान्यपि विरच्यन्ते भगवत्कटाक्षैः । पुण्डरीकाक्षस्य वी-
क्षणै: पद्मवनानि सृज्यन्तेऽन्तः समुद्रे लवणमर्याष्विप्सु । भगव
द्वपुरेव डोलोत्सवसामग्री कृत्स्नां स्वयं संपादयति ।
मीनस्याक्षीण्युपमानत्वेन प्रसिद्धानि । यदि पुण्डरीकाक्षो
मीनो भवेत्तद्वीक्षणैर्विचितपद्मवनसृष्टौ कः संशयीत ।

मत्स्यावतारस्यातिबृहत्वं प्रपन्नजनानन्दसन्दोहप्रथनं च चारु
वर्ण्यतेऽत्र रसिकमनोहारितया । मत्स्यावतारो श्रीमद्धयवद-
नावताराभिन्नः । मत्स्याश्वकच्छपवराह- इति श्री.
भागवते मत्स्याश्वयोरेकीकृत्य सहपठनम् । श्रीहयग्रीवं नमः
 
सङ्कल्पसूर्योदय प्रथमाङ्के नाटकमारिप्समानः तदहम-
४४
 
6