This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 
४३
 
नानाकृतिर्नायिका । १. नानाकारवती । २. नाना-

विधकृतिमती । कृतिषु नायकमप्यतिशेते नायिका । 'लघुतरा

रामस्य गोष्ठी कृता' इत्यादिकमत्र भाव्यम् । पृथग्विधेष्व-

नुगुणान्भावान्बिभ्रतीत्येव नानाकारपरिग्रह उपपादितः ।

अत्र नानाकृतित्वेन नायकादपि विविधाधिककृतिमत्ववर्णनं

स्वरसं स्यादिति रसिकैर्भाव्यम् ॥
 

 
निर्मग्नश्रुतिजालमार्गणदशादत्तक्षणैर्वीक्षणै-

रन्तस्तन्वदिवारविन्दगहनान्यौदन्वतीनामपाम् ।

निष्प्रत्यूहतरङ्गरिङ्खणमिथ: प्रत्यूढपाथश्छटा-

डोलारोहसदोहलं भगवतो मात्स्यं वपुः पातु नः ॥
 

 
अतिबृहद्भगवतो मात्स्यं वपुर्मकरालयं कृत्स्नं क्षोभयति ।

तिमिङ्गिलः, तिमिङ्गिलगिलः, तद्गिलस्तद्विल इति गिलपरं-

परा पठ्यते । विश्वनिगरणशीलोऽयं महागिल: । भगव-

दर्चा प्रतिमाया डोलोत्सवं वयं चिकीर्षामः । तदर्थं वयं डोलां

निर्मिमीमहे । अतिबृहतो मात्स्यवपुषः के बावा डोलां रचयितुं

प्रभवेयुः । कुतो वा तदर्थदार्वायस शृङ्खलादीनि संपाद्येरन् ।

डोलोत्सवं च दिदृक्षन्ति भक्ताः । ' किंस्विद्वनं क उ

वृक्ष आसीद्यतो द्यावापृथिवी निष्टतक्षुः' इति पृच्छती श्रुतिः