This page has been fully proofread once and needs a second look.

४२
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
ह्यते । न नटस्य पत्नी नटीवेषं परिगृह्णाति । असूर्यपश्या

शुद्धान्तस्त्री देव्यपि शैलूषी भवति । तस्या विभुत्वेऽप्यस्ति

जगन्मोहिनी माया यवनिका, येन सा तिरोधीयत इति

व्यञ्जयन्ति श्रीयामुनाचार्या: । वेषं परिगृह्य बहिरागमने सा

दृश्येत सर्वैरपि जनैः । न केवलमुत्कृष्टदेवमनुष्यादियोनिष्व-

वतरति । पृथग्विधेषु निहीनयोनिष्वण्प्यवतरति नायकेन सह

तच्छायाभूता । ' यस्तेन सह स स्वर्गो निरयो यश्च तं विना '

इति खलु स्वर्गनरकव्यवस्था तस्याः । पृथक्छब्दो नानार्थको

निहीनार्थकश्च । भावशब्दो जन्मपरोऽभिनेयहार्दुभावपरश्च ।

नटनप्रकरणे भावशब्दस्य तदर्थ आवश्यकः स्वयमिति

छायावद्भर्त्रनुगमनाय नियोगनिर्बन्धाभावो द्योत्यते । न छाया

अनुगमने नियुज्येत । नापि ततो निवार्येत । विधिनिषेधा-

नर्हा
तदतीतेयं छाया । सजवेयं छाया । ' छाया: सजीवा

इव धर्मदाराः' इत्याचार्याः ॥
 

 
यद्धमैरिह धर्मिंमिणी । ' यथा सर्वगतो विष्णुस्तथा चेयं

द्विजोत्तम ' इति पराशरवचनं स्मार्यते ॥
 

 
विहरते । स्वसन्तोषार्थमेव भूमिकाः परिगृह्णातीत्यात्म-

नेपदेन व्यज्यते ॥
 
WO-