This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 
४१
 
इति भूमविद्या अल्पे रसजनकत्वं निषेधति । इयं भूत्रो
म्नो
भूमिका यद्यपि भूमापेक्षयाल्पा, अस्यां पूर्णसुखमित्यघटित-

घटकत्वं व्यज्यते । ३. 'नटव द्भूमिका भेदैर्नाथ दीव्यन् पृथ-

ग्विधैः । पुंसामनन्यभावानां पुष्णासि रसमद्भुतम् ॥' इति

श्लोकः पूर्वमेवोदाहृतः ॥
 

 
अध्यक्षितः । १. अधोक्षजोऽदृश्योऽध्यक्ष्यते भूमिकाप
-
रिग्रहेण । २. भगवान्नटश्चेत्कः सभाध्यक्षः । सभ्या: परका-

लादयस्तद्भक्तास्तं विना कमन्यं सभाध्यक्षं कुर्युः । अयं नट

एव सभ्यैर्भावुकैरध्यक्षत्वेन स्थाप्यत इत्यपि चारु व्यज्यते ।

३. सभ्यानेवायमध्यक्षान्मनुते । भावुकैरध्यक्षवदाचर्यते भ
-
बहुद्धचेवद्बुद्ध्येत्यपि व्यज्यते । अध्यक्षणीयावतारसंख्या दश
,
अध्यक्षकामिन भिनवदशावतारभूतभावुकसंख्यापि दश । ४. ब्रह्म-

रसस्य साक्षात्करणेनैव तद्रसोऽस्मान्सासङ्क्रामति । एकस्य रसः

कथमन्यस्याध्यक्षयितुः स्यादिति चेद्रसस्य स्वभावोऽयम्,

यदेकत्रोत्पन्नमन्यान्द्रष्टृटृृन् सङ्क्रमेदित्येतदपि व्यज्यतेऽध्यक्षितो

भावुकैरिति ॥
 

 
यद्भावेषु पृथग्विधेष्वनुगुणान्भावान्स्वयं बिभ्रती ।

पुमान् देवः शैलूषो भवेत् । स्त्रीवेष : प्रायेण पुंनटैः परिगृ-