This page has been fully proofread once and needs a second look.

श्रीमद्वेदान्तदेशिक
स्तोत्राणि ।
 
लत्वाद्रङ्ग एव वसति । रङ्गं विना वेषपरिग्रहं विना न

क्षणमपीमाववस्थातुं शक्नुयाताम् ॥ भक्तार्तिपरिजिहीर्षया

भक्तमनोरथानुरोधेन सदा भूमिकापरिजिघृक्षुः सज्जस्तिष्ठ-

ति रङ्गे ॥
 
४०
 

 
लब्धनिर्भररसैर्भावुकैः । १. रसस्य लब्धत्वमाश्चर्या -

वहम् ' आश्चर्योऽस्य लब्धा' इति कठ श्रुतिर्ब्रह्मरस लाभल्या-

त्यन्तदुर्लभत्वं वदति । तच्छ्रुतिः प्रत्यभिज्ञाप्यते लब्धशब्देन ।
 
D
 

 
' रसं ह्येवायं लब्ध्वानन्दी भवति' इति श्रुतिरपि सङ्गृह्यत

इति पूर्वमुक्तम् । श्रवणमेव न लभ्येत बहुभिः । श्रवणेऽपि

वेदनं दुर्लभम् । वेदनेऽपि प्राप्तिर्दुर्लभा । प्राप्तिश्च लाभश-

ब्देनोच्यते । सा चानुभवगोचरतापत्तिः । तदेवोच्यते महाक-

विना 'सङ्क्रान्तिरन्यस्य विशेषयुक्ता' इति । सङ्क्रान्ति रुच्यते

श्रुत्या ' एतमानन्दमयमात्मानमुपसङ्क्रम्य ' इति । आनन्द-

ल्ल्युक्तबाङ्मनसागोचरानन्दो निर्भररस इत्युच्यते । निर्भर-

रस: पूर्णरस: । पूर्ण ब्रह्म । रसो ब्रह्म । तद्विषय: पूर्णरस

उचितः । स च नास्मत्प्रयत्नेन संपादयितुं शक्यः । नैर्भ,
-
र्यरूपप्रपन्नत्वसंपादने संपूर्णो रसोऽनायासेन लभ्येत । नैर्भ-

र्यलभ्यरसो निर्भरः पूर्ण: स्यादिति चारु व्यज्यते निर्भर-

शब्दमहणेन २. ' यो वै भूमा तत्सुखं नाल्पे सुखमस्ति