This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 
३९
 
हम्' इति गीयते तथा तद्भावुकानां ख्यावितिर्भूयात् । भावु-

कख्यातिरवतारख्यातौ पर्यवस्येत् । फलश्लोकोक्तं सर्वमन्त्र शु-

भत्वेन गृह्येत । ४. भूमिकां निर्वर्तयन्नः शुभमातनोतु
 

इत्यन्वयः ॥
 

 
दशधा । मध्यमणिन्यायेनोभयत्रान्वेति । दशधा शुभमा-

तनोतु, 'कृतं दशगुणं मया' इतिवत् । शुभगुणनमस्य

सहजम् । तदर्थमेवायमवतीर्णः । शुभविग्रहं दशधा विस्तार-

यतु । एकस्यास्मत्प्रपन्नवेषस्य फलत्वेन दश वेषान्प्रदर्शयति

रूपकं नाटकेषु दीर्घतमम् । तञ्च दशाङ्कम् । अवतारसंख्या पि

रूपाकाङ्कसंख्यासमाना। ब्रह्मावतारसंख्या न न्यूनाङ्कसंख्यया

भवेत् । एकमिदं नाटकं दशाङ्कम । दशधा भूमिकां निर्वर्त

यत्र: शुभमातनोतु ॥
 

 
निर्वर्तयन्भूमिकाम् । भून्म्नोऽल्पभूमिकापरिग्रहस्य श्र

साध्यत्वं पूर्वमुक्तम् । देहपरिमाणत्वमात्मनोऽभ्युपगच्छन्तो

जैना अस्माभिः पर्यनुयुज्यन्ते हस्तिशरीरपरिमाणो ज्जीवः

पिपीलिकाजन्म प्राप्नुवन्न पिपीलिकाशरीरे संमीयेतेति ॥
 

 
रङ्गे धामनि । रङ्गं धाम गृहम् । अन्येषां सूत्रधारा

नटानां च रङ्गमन्यद्गृहमन्यत्स्यात् । अयं तु सदा नटन शी