2023-02-27 22:44:14 by ambuda-bot
This page has not been fully proofread.
दशावतारस्तोत्रव्याख्या ।
३९
हम्' इति गीयते तथा तद्भावुकानां ख्याविर्भूयात् । भावु-
कख्यातिरवतारख्यातौ पर्यवस्येत् । फलश्लोकोक्तं सर्वमन्त्र शु-
भत्वेन गृह्येत । ४. भूमिकां निर्वर्तयन्नः शुभमातनोतु
इत्यन्वयः ॥
दशधा । मध्यमणिन्यायेनोभयत्रान्वेति । दशधा शुभमा-
तनोतु, 'कृतं दशगुणं मया' इतिवत् । शुभगुणनमस्य
सहजम् । तदर्थमेवायमवतीर्णः । शुभविग्रहं दशधा विस्तार-
यतु । एकस्यास्मत्प्रपन्नवेषस्य फलत्वेन दश वेषान्प्रदर्शयति
रूपकं नाटकेषु दीर्घतमम् । तञ्च दशाङ्कम् । अवतारसंख्या पि
रूपाकाङ्कसंख्यासमाना। ब्रह्मावतारसंख्या न न्यूनाङ्कसंख्यया
भवेत् । एकमिदं नाटकं दशाङ्कम । दशधा भूमिकां निर्वर्त
यत्र: शुभमातनोतु ॥
निर्वर्तयन्भूमिकाम् । भून्नोऽल्पभूमिकापरिग्रहस्य श्रम
साध्यत्वं पूर्वमुक्तम् । देहपरिमाणत्वमात्मनोऽभ्युपगच्छन्तो
जैना अस्माभिः पर्यनुयुज्यन्ते हस्तिशरीरपरिमाणो जीवः
पिपीलिकाजन्म प्राप्नुवन्न पिपीलिकाशरीरे संमीयेतेति ॥
रङ्गे धामनि । रङ्गं धाम गृहम् । अन्येषां सूत्रधारा
नटानां च रङ्गमन्यद्गृहमन्यत्स्यात् । अयं तु सदा नटन शी