This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या।
 
रसः, मध्वपूपो यथा मधुकरैः । भुवीति निवृत्ततर्षा नित्य-

मुक्ता व्यावर्द्धत्यन्ते । लयश्च विगलितवेद्यान्तरमनुभाव्यरसत-

न्मयतापत्तिः । ' तन्मयत्वं रसेषु' इति नटस्यामिनेयभाव-

तन्मयतायां भावुकसभ्येषु तद्भावसंक्रान्तिः सुलभा । रामा-

यणादिषु सीतारामशोकवर्णनप्रकरणेषु वयं रुदिमः स्थूल-

स्थूला नयन न्नयनमुकुलैर्बाप्प ष्पबिन्दून्प्रतिकलं मुञ्चाम: । ध्रुवं वयं

तदानीं करुणापराधीनास्तद्रसमयतां प्राप्नुमः । तच्च श्रव्य-

काव्ये पाठ्ये गेये च मधुरे । कथानायकनायक्यौ रुदितः ।

तच्छोकद्रष्टा ऋषिस्तिर्यग्दम्पतिवियोजनदर्शनेऽपि करुणवेदी

शोकाविष्टो भवति । तस्य शोकः श्लोकत्वमापद्यते । तच्छो-

कभरितश्लोकान्वयं श्रुत्वा शोकेनाविश्यामहे । ऋषेर्दर्शनम-

तिक्रान्तव्यवहितदर्शनमनुग्रहलब्धदिव्यचक्षूरूपधर्मवीर्येण सं-

पन्नम् । न साक्षात्तत्तद्वृत्तान्तकाले स प्रत्यक्षदर्शी । कालदेश-
व्यवाह

व्यवहि
तमपि तेन धर्मवीर्येण यथावत्प्रत्यक्षीकृतम् । तत्प्रत्यक्षी-

कृतं सोऽस्मान्श्रावयति स्वशोकभरितैः श्लोकैः । तैश्च वयं पुरा-

वृत्तान्तमिदानीन्तनमिवानुभूय नायकनायिकासमानशोका भ

बामः । सुदूरबहुविप्रकर्षपरम्पराव्यवधानेऽप्यध्यक्षीकरण-

समर्थता नापैतीत्यनुभवसिद्धम्
 
अनुमद्दग्रहलब्धधर्मवीर्य-

तुल्यवीर्यमस्त्युत्तमार्षकाव्यस्य श्रोतॄणां पठितॄणां च प्रति-