This page has been fully proofread once and needs a second look.

'३८
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
यति, नर्तयति। सूत्रत्वेऽपि सूत्रधारत्वेप्ययं सततनटः ।

सर्गस्थितिप्रलयविभ्रमनाटिकासु शैलूषवद्विविधवेषपरिग्रहो-

यम् । ४. नायं सभ्येभ्यो महीता नट: । अयं तु दाता

देवो नटः । ये स्वनाटकं पश्यन्ति तेषां सर्वस्वमात्मानमपि

यच्छति । ५. अन्यः प्राकृतो नट आत्मानं प्रद्योतयेद्वर्ण-

धारणादिना । अयं तु तेजसां राशिरूर्जितः । आत्मज्योति-

षमावृणोति योगमायया ॥
 
1
 
-
 

 

 
नः शुभमातनोतु । १. शुभमिति शुभाश्रयविग्रहो गृह्येत,

नामैकदेशे नामग्रहणम् । तेनैव खलु तद्विग्रहो लेखनीयोऽस्म-

द्धृदि । शुभविग्रहमस्मश्च्चक्षुर्गोचरतया विस्तारयतु । ' विस्तार-

यन् क्रीडसि योगमायाम्' इत्यवतारक्रीडावर्णनं ब्रह्मणा । योग-

माया चाश्चर्यभूतशुभविग्रहः । 'तां देवमायामिव दिव्यरू-

पिणीम्' इति श्रीरुक्मिणीदिव्यमङ्गलविग्रहविषये । २. शुभ-

मिति
भगवाद्वमविग्रहापरोक्ष्यजनितानन्दसन्दोहोऽपि
सङ्गृहीतः
स्यात् । अस्माकमानन्दं तनोतु, 'लक्ष्मीं तनोतु' इतिबत् ।
वत् ।
३. उपक्रमस्थं शुभमुपसंहारदृष्टशुभं स्यात् । एतत्स्तोत्रविव-

क्षणे ' दिशासु दशसु ख्यातिः शुभा जृम्भते' इति फलमु-

क्त
म् । दशदिशासु जृम्भमाणा शुभा ख्याति: शुभशब्देना-

भिप्रेता स्यात् । यथावतारस्य ख्याति: 'यश: कलिमलाप-
मिति
 
सङ्गृहीतः