This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 
वतारैर्दृश्यौ भवतः । अतीतास्वण्प्यवतारदशासु तदनुग्रहसह-

कृतयास्मद्भावनयाध्यक्ष्येते ।
 

 
देवः । १. रङ्गस्य मध्येऽत्यूर्जत जिततेजोवद्दी पोऽवश्यं निवे-

शनीयो नटान् शोभयितुम्, रङ्गशालां च दीपयितुम् । नि-

शि नाटकं नाट्येत । संसारनिशीमानि नाटकानि प्रवर्त्य -

न्ते । दीपापेक्षायां देवं विहाय कोऽन्यो दीपः प्रकाशेत

तत्संनिधौ । सहस्ररश्मेरपि सन्तमसपर्वं खलु भवति त-

न्
निकटे । स्वयंप्रकाशः सो नान्यतः प्रकाश्यतामर्हति ।
'न
तद्भासयते सूर्यो न शशाङ्को न पावकः ।' तिष्ठतु भासक-

त्वम् । स्वयमेव न भासेरंस्तत्र । न तत्र सूर्यो भाति न

चन्द्रतारकम् ' तद्दूरे आत्मानं यदि भासयेयुस्तदपि तद्भासैव ।

' तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति '

निरतिशयदीप्तियुक्तो द्योतमानोऽनन्याधीनस्वप्रकाशो देवः

स्वयं दीपो भवत्यात्मानं सभ्यान् रङ्गं च भासयितुम् ।

२. निष्कलस्य निष्क्रियस्य शान्तस्यास्य कथं नटनसंभवः ।

क्रडिनशीलत्वादयं नटो भवति । यद्यपि सर्वेश्वरोऽयं देवन-

लोलत्वान्नानाकारभूमिकाः परिगृह्य नटति । ३. अयं विश्वस्य

सूत्रम् । अस्मिन्सर्वमिदं प्रोतं सूत्रे मणिगणा इव । लोक-
त्रय

त्रय
सूत्रधारोऽप्ययम् । सर्वानप्ययं सततं यन्त्रारूढानिव भ्राम-