This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
,
 
कम् । 'ज्योतींषि विष्णुर्भुवनानि विष्णुः' इत्यादिना
सर्वत्र ब्रह्मदर्शनमुपदिश्यते श्रीपराशरेण । यथाकाश-
स्थितो नित्यं वायुः सर्वत्रगो महान् । तथा सर्वाणि
भूतानि मत्स्थानीत्युपधारय ॥' इति गीताश्लोकभाध्ये 'स
र्वाणि भूतानि तैरदृष्टे मयि स्थितानि मयैव वृतानीत्युपधारय ।
यथाहुर्वेदविदः 'मेघोदय: सागरसन्निवृत्तिरिन्दोर्विभाग: स्फु.
रितानि वायोः ॥ विद्युद्विभङ्गो गतिरुष्णरश्मेविंष्णोविं-
चिताः प्रभवन्ति मायाः । इति विष्णोरनन्यसाधारणानि
महाश्चर्याणीत्यर्थः । श्रुतिरपि ' एतस्य वा अक्षरस्य प्रशासनं
गार्गि सूर्याचन्द्रमसौ विवृतौ तिष्ठतः' 'मीषास्माद्वातः पव-
ते । भीषोदेति सूर्यः । भीषास्मादग्निश्वेन्द्रश्च मृत्युर्घावति
पञ्चमः ।' इत्यादिका इति भाषितम् । मेघोदयेत्यादिश्लोकः
एवं व्याख्यातस्तात्पर्यचन्द्रिकायाम्- अस्मदाद्यगोचरोपा.
दानोपकरणसंप्रदानादिकानां तत्क्षणादेव सकलदिङ्मुखव्या-
पिनां धाराधराणामुत्पत्ति: । सकलभुवनाप्लवनलम्पटस्यैव
जलनिधेरम्बरालम्बिनां तरङ्गाणां वेळातले निवृत्ति: । प्रतिनि-
यतकलावृद्धिक्षय शृङ्गोन्नमनादिरूपश्चन्द्रमसो विभागः । अश-
डितागमानामनियतदिग्विशेषाणां तृणागरितरुषण्डऌण्टाकानां
चण्डमारुतादीनां विष्फूर्तयः, प्रशान्तद्नमिहिरम करादि मह-