This page has been fully proofread once and needs a second look.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
-
 
हितान् जीवयिष्यन् । विशिष्टानुभवेऽपि विशेषणभूतस्य स्वस्य

प्रपञ्चस्य च विस्मरणमपि प्रकाश्यते श्रीपराशरेण प्रहा-
ह्ला-
दानुभववर्णने । 'एवं संचिन्तयन्विष्णुमभेदेनात्मनो द्विज

तन्मयत्वमवापाग्र्यं मेने चात्मानमच्युतम् ॥ विसस्मार तदा -

त्मानं नान्यत्किंचिद्रज्ञादजानत । अहमेवाव्ययो नित्यः परमा-

त्मेत्यचिन्तयत् ॥' इति । समाधेर्व्युत्थितःतश्च 'दृष्ट्वापि स

जगद्भूयो गगनाद्युपलक्षितम् । प्रह्लादोऽस्मीति सस्मार पुन-

रात्मानमात्मना ॥' इति प्रथमं प्रपञ्चमनन्तरमात्मानं च

विशेषणतया सस्मार । पूर्णानुभवमग्नदशायां विशेषणस्य

विस्मरणं गुणायैव भवेत् । ब्रह्माधीनसत्ताकस्य स्वस्य विस्म-

रणमात्रं नात्यन्तमसत्तेति वयम् अनुभूयमानानन्तब्रह्मेतर-

स्यात्यन्तं बाधितत्वमित्यद्वैते । विशेषणानि न पृथक् सन्ति,

न स्वातन्त्र्येण सन्ति । 'परमार्थस्त्वमेवैको नान्योऽस्ति जग-

तीतले ' इति वयमध्यनुभवामः । 'प्रत्यक्षं चिदचिन्मयं जग.
-
दिदं यस्येत्यनुश्रूयते यश्चानन्यघियामनन्तविभवः प्रत्यक्षताम-

श्
नुते । यश्चैको युगपत्सदा स्वत इदं विश्वं दरीदृश्यते प्राज्ञं तं

प्रतिपन्नमोक्षणविधौ दक्षं दिदृक्षेमहि ॥' इति प्रत्यक्षपरिच्छे-

दान्ते आचार्या न्यायपरिशुद्धौ । सर्वत्र ब्रह्मापरोक्षणं प्रत्यक्षस्य

परिशुद्धिरित्याचार्याणामाशय: । जडवस्तुमात्रदर्शनं भ्रमात्म-
m