This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 
*
 
मृत्पिण्डेन सबैर्वं मृन्मयं विज्ञातं स्यात्' इत्युपक्रम्य

'
ऐतदात्म्यमिदं सर्वम् ' इत्युपसंहरतः पितुरेषोऽभिप्रायः ।
"

'
यथा मृन्मयपदार्थेषु मृदमेव पश्यसि, लोहमयपदार्थेषु

लोहमेव पश्यसि, काष्णीर्ष्णयसपदार्थेषु कृष्णाय एव पश्यासयसि,

तस्य तस्योपादानत्वात् । तथा सर्वस्मिन्मृन्मये लोहमये

कार्ष्णायसे इतरत्र च ब्रह्म पश्य, तस्य सर्वोपादा-

नत्वात्तदात्मकत्वात्सर्वस्य । स्वस्मिन्नपि ब्रह्म पश्य, तवापि

तदात्मकत्वात् । यावत्स्व स्मिन्विशेषे नैतदात्म्यस्योपसंहार-

स्तावन्न तस्यानुभवारूढता । ' अखिलजगत्स्वामिन्नस्मत्स्वा-

मिन्' इति गद्ये अखिलजगत्स्वामी स्यान्न स्वस्वामी,

स्वस्वातन्त्र्यस्यानादिदृढवासनामूलत्वात् । उपादानभूतब्रह्मप्र-

तीतिः सर्वैः कार्यपदार्थैरुत्पाद्या । विशेष्यमात्रस्य विवर्ततयो-

पादानत्वमद्वैते। विशिष्टस्य विशेषणगतपरिणामद्वारोपादानत्व-

मस्मन्मते । यद्यपि विशिष्टदर्शनं वयं सर्वत्राभ्यस्याम:, तथापि

न ब्रह्ममयत्वप्रतीतिहानिः तस्यैव प्राधान्येन प्रचुरत्वात् । अ-

प्रतीकदर्शनं चेदम् । प्रपञ्चस्य निष्प्रपञ्चीकरणमद्वैते । तस्यापि

ब्रह्म प्रचुरतानुभवो विशिष्टाद्वैते । सर्वस्य ब्रह्मात्मकत्वरूपस

त्येन शेपे प्रह्लाद : ' यथा सर्वेषु भूतेषु सर्वव्यापी जगद्गुरुः ।

विष्णुरेव तथा सर्वे जीवन्त्वेते पुरोहिताः ॥' इति भृमृतपुरो-
>
 
3
 
३३