This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
स्वभावोऽयम् ,यद्भावुकानामपि तुल्यरसतेति । रसरूपस्

भगवतो रसस्यापरोक्षणे तत्तुल्यो रसोऽनुभूयेत तदनुप्रहेण

त्प्रियत मैर्नित्यमुकैः ॥
 
३२
 

 
यद्यत्पश्यामस्तत्र तत्र परमविशेष्यभूतं परमप्राणभूतं सत्-

सत्यात्मादिशब्दैरुपनिषद्भिरुद्घोषितं ब्रह्म प्राधान्येन वयम-

ध्यक्षयितु मस्तिमर्हास्तत्तज्जडाजडं चाप्राधान्येन । बोधे विशेष्यत्वं

ब्रह्मणः । जडसरं समाप्यान्ते 'वायुदोधूपते यद्यदयमुडुगणो

बम्भ्रमीति द्रुतं स्खे तेजो जाज्वल्यते यद्यदपि जलनिधिर्मा.
-
वीं दोधवीति । भूर्यद्वा बोभवीति स्थिरचरमखिलं तच्

तादृक्च सर्वं स्वायत्ता शेष सत्तास्थितिय मनपरब्रह्मलीलोर्मिंमिच-

क्रम् ॥' इत्यद्भुतमुल्लिखितो जगद्विशिष्टब्रह्मानुभवो आचार्यैः ।

वेदान्ताचार्यो वृथा जडपदार्थस्वरूपं शोधयामास; नेदम-

ध्यात्मशास्त्रमिति मा मथाः । अस्मद्दर्शनरीत्यानुभवे सर्व ज

डम्, भगवतः सर्वाश्चर्यमयत्वमुपपाद्य तस्मिन्भक्तिं वर्धयेत् ।

तदर्थमेव भगवता भक्तियोगषट्के भूयो विभूतयः प्रादर्शि

षत । 'गृह्यमाणे घटे यद्वन्मृत्तिका भाति वै बलात् । वीक्ष्य-

माणे प्रपञ्चेऽपि ब्रह्मैवाभाति भासुरम् ॥ ' इति सद्विद्यायाः

प्रयोजनं परिदृश्यमान सर्वजडा जडपदार्थस्य ब्रह्मप्रतीतिजनक.

त्वमिति सुन्दरं प्रदर्शयन्ति श्रीशंकराचार्या: । 'यथा एकेन