This page has not been fully proofread.


 
दशावतारस्तोत्रव्याख्या ।
 
३१
 
स्वविषयम्' इति । एतत्स्तोत्र श्लोकाः प्रायेण तत्सप्तमाङ्के
दृश्यन्ते । चेतः स्थितिमण्टपे संस्कारशिल्पिना लिखितानि
भावनामयावतारशिल्पानि विवेकः सुमतिश्च पश्यतो व्यव-
सायेन सह । भावनया अस्माकं चित्तभित्तौ पुरावृत्तावता-
ररूपान् लेखयितुं यथानुभवमुल्लेखनं क्रियते आचार्यैः । नि-
वर्त्यमाना भूमिका भावनाभूमिका: । ' भजास मनसि नित्यं
भूमिकां भावनाख्याम्' इत्याचार्याः पादुकां प्रत्यन्तिमपद्धतौ ।
किंचिदूनसहस्र लो कैर्मुहूर्त
कालं निबिडं निपुणं भाविता पा-
दुका भावुकाचार्य मनास स्वभूमिकामातनोतीत्याचार्यानुभवः ।
तादृशोऽनुभवोऽस्माभिरपि संपाद्येत, यदि वयमाचार्य-
लोकान्प्रत्यहं जल्पन्तस्तदर्थं च भावयेम । स्वभा-
वितानवतारानस्माननुभावयितुमेवाचार्यप्रयत्न: ।
'शुभमा•
तनोतु' इति प्रार्थना 'शुभविप्रहमस्माकमाविष्कारयतु'
इत्यप्याभप्रैति । कथमध्यक्षणमात्रेण ब्रह्मानन्दोऽस्मदानन्दो
भवेत् ? एकेनानुभूयमानस्य दर्शनेन कथं द्रष्टुस्तदानन्यः ?
ब्रह्मानन्दोऽन्यूनातिरिक्तं नित्यमुकैर्लभ्यत इति वयमभ्युपग-
च्छामः । जीवब्रह्मणोरानन्दस्य साम्ये तयोरप्यैक्यं नियतमि-
त्याक्षिप्येत । शारीरकशास्त्रार्थदीपिकायां श्रीमद्रङ्गरामानुज-
मुनिभिरोनन्दुस्य स्वकीयत्व मनपेक्षितमिति वर्णयन्ति । रसस्य
 
-