This page has been fully proofread once and needs a second look.

३०
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
इति संस्कारः । ' परिचय महिमानं प्राप्य सञ्जातभूमा दिवि-

षदनुविधेयो दिव्यसंस्कारशिल्पी । व्यलिखदनघरूपं विश्व-

मेतद्यथावाञ्चवच्चिरगतमपि दृश्यं चिन्तनाचित्रभित्तौ ॥' इति

व्यवसाय: संस्कारस्यालेखनकौशलमभिष्टौति । चिरगतस्या-

व्यवतारस्य वर्तमानत्वप्रतीतिप्रकारो वर्ण्यतेऽनन्तरलोके तेन

'प्रमाणप्रत्ययादत्र कल्पितान्यविकल्पतः । अपि भूतानि भावीनि

भवन्तीव भवन्ति नः ॥' इति । भावनयैव चित्तभित्तो लि.
-
ख्यन्तेऽवताररूपाणि । अतीतान्यवताररूपाण्यततितीतविषयिण्या

भावना लिख्यन्ते । भविष्यत्कल्किरूपं त्वागामिविषयिण्या

भावनयेति विशेष: । भगवदनुग्रहेण सन्तोषेण आन्तरभा-

वनामात्रेण विरच्यते इदमवताररूपशिल्पम् । यथाह विवे-

कः --
नैतद्वाहौबाह्यैस्तूलिकावर्णकाद्यैः क्ऌप्तं चित्रं किं तु

सन्तोषलिप्ताम् । नानाकारां भावनामेव शिल्पी शिल्पव्या.
-
जान्नूनमबोत्रोज्जगार ॥' इति । 'यमेवैष वृणुते तेन लभ्यस्तस्यैष

आत्मा वृणुते तनूंं स्वाम्' इति श्रुतिमनुसृत्य भगवद्वतार
दवतार-
तनुर्भगवदनुग्रहेणैव चिन्तायां लिख्येत । 'हृदि मुग्धशिख-
न्

ण्
डमण्डनो लिखितः केन ममेमैष शिल्पिना ॥' इति प्रश्न-

स्योत्तरं दीयते आचार्यै: सङ्कल्पसूर्योदये 'अखण्डब्रह्माण्ड

प्रथमतरशिल्पी स भगवान्स्वयं पद्माजानिर्व्यालिखदिह चित्रं
 
कः-
#