This page has not been fully proofread.

३०
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
इति संस्कारः । ' परिचय महिमानं प्राप्य सञ्जातभूमा दिवि-
षदनुविधेयो दिव्यसंस्कारशिल्पी । व्यलिखदनघरूपं विश्व-
मेतद्यथावाञ्चरगतमपि दृश्यं चिन्तनाचिवभित्तौ ॥ इति
व्यवसाय: संस्कारस्यालेखनकौशलमभिष्टौति । चिरगतस्या-
व्यवतारस्य वर्तमानत्वप्रतीतिप्रकारो वर्ण्यतेऽनन्तरलोके तेन
'प्रमाणप्रत्ययादत्र कल्पितान्यविकल्पतः । अपि भूतानि भावीनि
भवन्तीव भवन्ति नः ॥' इति । भावनयैव चित्तभित्तो लि.
ख्यन्तेऽवताररूपाणि । अतीतान्यवताररूपाण्यततिविषयिण्या
भावना लिख्यन्ते । भविष्यत्कल्किरूपं त्वागामिविषयिण्या
भावनयेति विशेष: । भगवदनुग्रहेण सन्तोषेण आन्तरभा-
वनामात्रेण विरच्यते इदमवताररूपशिल्पम् । यथाह विवे-
नैतद्वाहौस्तूलिकावर्णकाद्यैः क्ऌप्तं चित्रं किं तु
सन्तोषलिप्ताम् । नानाकारां भावनामेव शिल्पी शिल्पव्या.
जान्नूनमबोजगार ॥' इति । 'यमेवैष वृणुते तेन लभ्यस्तस्यैष
आत्मा वृणुते तनूंं स्वाम्' इति श्रुतिमनुसृत्य भगवद्वतार
तनुभगवदनुग्रहेणैव चिन्तायां लिख्येत । 'हृदि मुग्धशिख-
न्डमण्डनो लिखितः केन ममेष शिल्पिना ॥' इति प्रश्न-
स्योत्तरं दीयते आचार्यै: सङ्कल्पसूर्योदये 'अखण्डब्रह्माण्ड
प्रथमतरशिल्पी स भगवान्स्वयं पद्माजानिर्व्यालिखदिह चित्रं
 
कः-
#