This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 
9
 
मद्वरवरमुनयो वकुलभूषणान्तादिगाथाशतके । 'ब्रह्मन्का-

लान्तरकृतं तत्कालीनं कथं भवेत् । यत्कौमारे हरिकृतं जगुः

पौगण्डकेऽर्का: ।' इति परीक्षिता पृष्ठ: श्रीशुकोऽनन्तस्य

भगवतः कालोपाध्यतीतत्वं सदा वर्तमानस्वभावत्वं साक्षादप-

रोक्षत्वं च स्मरंस्तदनुभवे भग्नो विसस्मार श्रोतारं परीक्षि
तं
कथकमात्मानं च । कृच्छ्राच्छनैर्लब्धबाबहिर्दृशि: प्रत्याह

' सतां ह्ययं सारभृतां निसर्गो यदर्थवाणीश्रुतिचेतसामपि ।

प्रतिक्षणं नव्यवदच्युतस्य स्त्रिया विटानामिव साधुवार्ता ॥
'
इति । स्त्रीचित्तानां स्त्रीमयानां विटानां प्रियस्त्रीविषयस्मरण-

वार्तादिना वृत्तानुभवोऽपि वर्तमान इव प्रतीयेत । तथा

ब्रह्मचित्तानां ब्रह्ममयानां ब्रह्मविदां वृत्तान्यपि तदवताररू-

पाणि वर्तमानवद्बर्तमानवदनुभूयेरन् । दूरस्थितकामिनीविषयपुरावृत्तस्य

वर्तमानत्वानुभवो नियतं भ्रमात्मकः, तद्वृत्तान्तस्य वर्तमान-

त्वाभावात् । भगवतस्तु सदा वर्तमानत्वात्तदनुभवो नावश्यं

भ्रान्ति: स्यात् । अवताररूपाणां भावनाजन्यसंस्काररूपेण

शिल्पिना चिन्तनारूपचित्रभित्तौ आलेखनीयांयावतार प्रसादेन

सम्यग्लेखनं सुशकमित्याचार्या : प्रदर्शयन्ति सङ्कल्पसूर्यो

दयसप्तमाङ्के । ' विदुषश्चिन्तनां शक्त्या चित्रमिति
भित्तिं
वितन्वता । शुद्धाशुद्धविभागार्हं विश्वं विलिखितं मया ॥
 
२९
 
-