2023-03-02 04:55:20 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
श्राध्यक्षयितुं पारयामः । न वयं तत्कृतपरावरनिखिलजनमनो-
नयनहारिनवनीतनटनादिदिव्यचेष्टितान्यनुभवामः, तेषाम-
तिक्रान्तत्वात्, अतिक्रान्तदर्शनदक्षसूक्ष्मदृष्टेरस्माकमभावात् ।
यदि वयं भावुकत्वं रसिकत्वं च संपादयेम, शुकपराङ्कुश पर-
कालादिवद्वयं भिन्नकालानपि तानवतारांनध्यक्षयेम । 'अध्य-
क्षितो भावुकैः' इत्याचार्यैरस्ति चेद्भावुकत्वमतिक्रान्तमप्यध्य
क्ष्येतेति व्यज्यते । ' पिबत भागवतं रसमालयं मुहुरहो
रसिका भुवि भावुका: ।' इति श्रीशुक एतद्दर्शयति । भाग
वतो रसः रसस्वरूपो भगवानेव वा ' समेत्य ब्रह्मसंस्पर्श
सुखमत्यम्तमश्नुते' इत्युक्ततत्संस्पर्शजन्यात्यन्तसुखभूतो रसो
वा, अमृतद्रवभूतशुकमुखगलिततदास्वादितफलरसग्रन्थो वा ।
शाखारूढ: शुकोऽच्युतं फलमासाद्य 'एकाकी न रमेत '
एक: स्वादु न भुञ्जीत' इति च न्यायमनुसृत्य तमच्युतं
रसमस्मत्पानाय स्वमुखाच्च्यावयति । 'रसो वै सः, रसं
ह्येवायं लब्ध्वानन्दी भवति' इत्यानन्दमयस्यानन्दरसघनत्वं
श्रा
बोध्यन्ते 'रसिका भावुका: ' इति । निगमकल्पतरोर्गलितं
फलं शारीरकप्रमितफलभूतो भगवान्भवेत् । यावल्लयं पेयो
9
4
२