This page has been fully proofread once and needs a second look.

शनशब्दयोः पञ्चतापानेन दुःखनिवृत्तिः खल्वर्थः । वज्र-
सारीकृतकुसुमशरविद्धानां कामाभिग्नितप्तानां पञ्चता सुखाय
भवेत् । मूर्च्छावस्थाया उपकारकत्वं वर्ण्यते शोकव्यथिता-
नाम् ' मोहेन संस्तम्भयतेन्द्रियाणाम् । अज्ञात भर्तृव्यसना
मुहूर्तं कृतोपकारेव रतिर्बभूव ।' इति । मलयपवनादेः
कामाग्निसंधुक्षकत्वं कविसमयसिद्धम् । मदनताप: शीतवा-
तेन न शाम्येत् । अनेनैवाभिप्रायेण 'अङ्गमनङ्गतप्तम्' इति
तुल्यं शब्दं प्रयुञ्जाना: 'न यमुनासलिलकणबाहिशीतलपव-
नेन गोपिका मदनतापशान्तिमीयुः । किं तु यमुनासिकत-
स्थासु कृष्णपद्पङ्क्षुितिषु निजमङ्गं विन्यस्य तापशान्तिमीषुः
इत्यूचुः । यदुक्तं कविना 'द्वारेऽस्य पाण्डुसिकते पदपङ्किक्तिर्दृ-
श्यतेऽभिनवा ।' इति तस्मिन्प्रकरणे, तदपि स्वीकृतं श्रीव-
त्साङ्कमिश्रैः । यावान्बहुमानो दुष्यन्तस्य शकुन्तलापदपकौङ्क्तौ,
तावांस्तदधिको व्यामोहो गोपिकानां कृष्णपदपङ्किक्तिषु । इत्थं
भिन्नकालत्वं शोचन्ति ते । श्रीवकुलभूषणा अतीतानवतारा-
ननुभवितुं तीव्रोत्कण्ठां प्रदर्शयन्ति वटतलशयितशिशुः
सप्तलोकीं निगीर्येत्याद्यासु गाथासु । शिशुत्वादिविशिष्टं
भगवन्तमनुबुभूषोर्वकुलभूषणस्य इन्दुं करस्थं कामुङ्क्षद्भिः
शिशुभिस्तौल्यं संपद्यत इवेति चारु व्यञ्जयन्ति श्री-