This page has been fully proofread once and needs a second look.

तदुच्यते ' निर्वर्तयन्भूमिकां रङ्गे धामनि' इति । नटस्य
रङ्गं कुलधनं यथा तस्य नाट्यविद्या कुलविद्येति गणदास: ।
नटस्य रामस्य कुलधनं स्याद्रङ्गम् । अत एव 'रामादीनां
कुलधनमिदं रङ्गतां याति रङ्गम्' इति ॥
 
'हा हन्त हन्त भवतश्चरणारविन्दद्वन्द्वं कदा नु भविता
विषयो ममाक्ष्णोः । योऽहं निरर्गलविनिर्गलदन्धकारैर्वृक्षैस्तृ-
णैश्च सुलभं समयं व्यतीतः ॥' इति श्रीवत्साङ्कमिश्रा: कोस-
लजनपदस्य कृत्स्नतृणवृक्षपशुपक्षिमनुष्यादिप्राणिसामान्यमो-
क्षेण समयातीतत्त्वं शोचन्ति । कृष्णावतारे राससमये यमु-
नापुलिनसिकतभावालाभं च शोचन्ति । ' हा जन्म तासु
सिकतासु मया न लब्धं रासे त्वया विरहिताः किल गोप-
कन्या: । यास्तावकीनपदपङ्क्तिजुषोऽजुषन्त निक्षिप्य तत्र
निजमङ्गमनङ्गतप्तम् ॥' इति । इन्दोः शीतरश्मित्वं विरहि-
जनेष्वयथार्थम्, यस्मादिन्दुस्तेषु हिमगर्भैर्मयूखैरग्निं विसृजती-
त्युक्त्वानुपदमेव ' शक्यमरविन्दसुरभिः कणवाही मालिनीत-
रङ्गाणाम् । अङ्गैरनङ्गतप्तैरविरलमालिङ्गितुं पवनः ॥' इति
शैत्यसौरभ्यादियुक्तपवनस्यानङ्गतापशमनत्वमवर्णयन्महाकविः ।
' पद्मसौगन्धिकवहं शिवं शोकविनाशनम् । धन्या लक्ष्मण
सेवन्ते पम्पोपवनमारुतम् ॥ ' इति श्लोकस्य शिवशोकविना-