This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 
२७
 

 
तदुच्यते ' निर्वर्तयन्भूमिकां रङ्गे धामनि' इति । नटस्य

रङ्गं कुलधनं यथा तस्य नाट्यविद्या कुलविद्येति गणदास: ।

नटस्य रामस्य कुलधनं स्याद्रङ्गम् । अत एव 'रामादीनां

कुलधनमिदं रङ्गतां याति रङ्गम्' इति ॥
 

 
'
हा हन्त हन्त भवतश्चरणारविन्दद्वन्द्वं कदा नु भविता

विषयो ममाक्ष्णोः । योऽहं निरर्गलविनिर्गलदन्धकारैर्वृक्षैस्तृ-
नै

णै
श्च सुलभं समयं व्यतीतः ॥ '' इति श्रीवत्साङ्कमिश्रा: कोस-

लजनपदस्य कृत्स्नतृणवृक्षपशुपक्षिमनुष्यादिप्राणिसामान्यमो-

क्षेण समयातीतत्त्वं शोचन्ति । कृष्णावतारे राससमये यमु-

नापुलिनसिकतभावालाभं च शोचन्ति । ' हा जन्म तासु

सिकतासु मया न लब्धं रासे त्वया विरहिताः किल गोप-

कन्या: । यास्तावकीनपदपङ्किक्तिजुषोऽजुषन्त निक्षिप्य तत्र

निजमङ्गमनङ्गतप्तम् ॥' इति । इन्दोः शीतरश्मित्वं विरहि-

जनेष्वयथार्थम्, यस्मादिन्दुस्तेषु हिमग र्भैर्मयूखैरामंरग्निं विसृजती-

त्युक्त्वानुपदमेव ' शक्यमरविन्दसुरभिः कणवाही मालिनीत-

रङ्गाणाम् । अङ्गैरनङ्गतप्तैरविरलमालिङ्गितुं पवनः ॥' इति

शैत्यसौरभ्यादियुक्तपवनस्यानङ्गतापशमनत्व मवर्णयन्महाकविः ।

' पद्मसौगन्धिकवहं शिवं शोकविनाशनम् । धन्या लक्ष्मण

सेवन्ते पम्पोपवनमारुतम् ॥ ' इति श्लोकस्य शिवशोकविना-