This page has not been fully proofread.

.२६
 
श्रीमद्वेदान्तदेशिक स्तोत्राणि ।
 
'यस्प
 
वासुदेवः' इत्युक्त्वानन्तरम् 'अहं च वासुदेवः' इत्याशङ्का-
निरासकचशब्दपूर्वकमात्मनो वासुदेवात्मकत्वं वदति। नाहं
मत्प्रकारो मन्निष्ठो मदात्मकः । अहमित्युक्ते मत्प्रकारं ब्रह्म-
त्येष शास्त्रीयो बोधोऽनुभवश्च न्याय्यः । चिन्तितनिभिषित-
सर्वचेष्टितानि तेनैव निर्वर्त्यन्त इति सदा भाव्यम् ।
नाहंकृतो भावः ' इति गीतावचनमनुसृत्याहंकृतत्वबुद्धि नि-
रस्य ब्रह्मकृतत्वबुद्धिः परिचेया । यथानेककोट्यवयवविशिष्टै-
कदेहिन एकत्वेनानुभव: सुलभः सहजश्च तथा विश्वदेहिन
एकत्वानुभवं परिचिनुयाम । 'दृष्टि ज्ञानमय कृत्वा पश्ये-
द्ब्रह्ममयं जगत् । सा दृष्टिः परमोदारा न नासाग्रावलोकिनी ॥
इति श्रीशंकराचार्याः ॥
 
'ब्रह्मस्वभावो हि प्रपञ्चः, न प्रपञ्चस्वभावं ब्रह्म ।' प्र-
पञ्चगत जाड्यपरिमितत्वदुःखरूपत्वादीनि न ब्रह्मणि । ब्रह्म-
स्वभावभूतानुकूल्यानन्दत्वे प्रपञ्चस्य निजं वास्तवं रूपम् ।
तव्यक्तीकरणे सर्वस्याप्यानन्दमयत्वेनैकरस्यं भवेत् । तदयं
सर्वदास्माभिर्विशिष्टैकब्रह्मानुभवोऽभ्यसनीयः । ' सर्वस्याप्या-
नुकूल्यं स्वत इह जगतो वासुदेवात्मकस्य व्यक्ति तन्मुक्ति-
काले भजति' इत्याचार्या: । अवताराणां भूमिकात्वेन रूपणे
ने तत्परिग्रह उचितः । श्रीरङ्गे दशावतारमूर्तीः पश्यामः ।