This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 
२५.
 
षेधगम्यत्वेन बोधयति ॥
 

 
सूत्रकारश्च कार्यस्य कारणानन्यत्वं सूत्रयति, नैक्यम् ।

फलदशायां चाविभागमेव प्रतिजानीते 'अविभागेन दृष्टत्वात्
'
इति, नैक्यम् । 'तभिन्निष्ठस्य मोक्षोपदेशात्' इति सन्निष्ठां

मोक्षोपायतया सूत्रयति । स्वमात्रविश्रान्तिरूपस्वनिष्ठता न

मोक्षप्रापिका । कृत्स्नस्य चिदचित्प्रपञ्चस्य तदन्तर्गतस्य स्व.
-
स्यापि ब्रह्ममयता भावनीया अभ्यसनीया सात्मीकार्या च ।

तादृशानुभवः प्रमा । पृथक्त्वानुभवो भ्रमः । प्रपन्नश्च ब्रह्म-

मयतां प्रपन्न: स्यात् । ' त्वां चिन्तयंस्त्वन्मयतां प्रपन्नः ,

इति वदन्त आचार्या एतत्सूयन्तीव । शास्त्रेणैतदात्म्यमिदं

सर्वमित्युक्ते स्वव्यतिरिक्तस्य सर्वस्य ब्रह्मापृथक्त्वं झटित्य-

भ्युपगच्छामः तदपृथक्त्वस्यास्मत्प्रत्यक्षानुभवाविरुद्धत्वात् ।

अस्माकं तदपृथक्त्वे न तूर्णं विश्वसिमः, पृथक्त्वाभिमान -

स्यास्माकमत्यन्तदृढत्वात् । शास्त्रवासनया सुदृढश्रद्धया दृढा-

भ्यासेन च स्वपृथक्त्वबुद्धिर्व्यपोह्येत । अत एव श्रुतिः

प्रथमं सर्वस्येदम ऐतदात्म्यरूपं सदात्मकत्वमुपदिश्यान्ते

' तत्त्वमसि' इति संबोध्य शिष्यस्यापि सदात्मकत्वं बोधयति ।
स्वपर्यन्त

स्वपर्यन्त
मैतदात्म्यानुभवे कृत्स्नप्रपत्रञ्चस्य तदात्मकता अनुभवा
-
रूढा भवेत् । एतत्क्रमेणैव भगवान् धर्मराज: ' सकलमिदं