This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्यौँ ।
 
२३
 
आत्मशब्दो नियन्तृचेतनवाची । शरीरशरीरिभावेन तयोः

सामानाधिकरण्यं समर्थ्यते न्यायामृततरङ्गिण्याम् । त्नस्य
कृत्स्नस्य
जगतोऽस्माकं च स्वात्मकत्वं निरस्य भगवदात्मकत्वेन तद-

पृथक्त्वेन तद्द्वैततया अद्वैतानुभवोऽस्माभिः सतत मभ्यस-

नीय: । आरम्भणाधिकरणोक्तानन्यत्वं ब्रह्मव्यतिरेकेणाभा

इति श्रीशाङ्करभाष्ये । ' अनन्यत्वमिति नाभेदं ब्रूमः, किं

तु भेदं व्यासेधामः' इति तदधिकरणभामत्य भेदेऽरुचि
चिं
कण्ठरवेण ब्रवीति । 'अनन्याश्चिन्तयन्तो मां ये जनाः

पर्युपासते' इति श्लोकभाष्ये 'पर्युपासते सर्वकल्याणगुणा-

न्वितं सर्वविभूतियुकं मां पंरित उपासवे अन्यूनमुपासते'

इति भाषितम् । 'अन्यूनमित्य खण्डितगुणविभूतिकमित्यर्थः
'
इति चन्द्रिका । इममखण्डार्थम खण्डानुभवं च वयं रोचा-

महे । विशिष्टस्याद्वैतेनानुभवमभ्यसिषिषामो न विशेष्यमात्रस्य

निर्विशेषाद्वैतम् ' एवं धर्मान्पृथक्पश्यंस्तानेवानुविधावति'


इति कठवल्ली धर्माणां विशेषणानां ब्रह्मणः पृथग्दर्शनमनर्थ-

हेतुतया निन्दति । विश्वस्य भगवच्छरीरत्वं तदन्तस्थत्वं च

प्रत्यक्षं निदर्शितमर्जुनस्य निजैश्वररूपदर्शनेन भगवता । य-

द्यपि न तावन्मात्रमैश्वररूपप्रदर्शनमवताररूपेषु सर्वेषु , यथा

विश्वरूपे, अस्त्येव तत्रापि ब्रह्मत्वप्रदर्शनं नियाम्यजगद्विशि-
1