This page has not been fully proofread.

२२
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
इति गीताश्लोकभाष्ये " बहुधा पृथक्त्वेन जगदाकारेण
विश्वप्रकारमवस्थितं मामेकत्वेनोपासते । एतदुक्तं भवति-
भगवान्बासुदेव एव नामरूपविभागानतिसूक्ष्मचिदचि-
द्रस्तुशरीरः सन् सत्यसंकल्पो विविधविभक्तनामरूपस्थूलचि-
दचिद्वस्तुशरीर: स्यामिति संकल्प्य स एक एव देवतिर्यड्यनु-
व्यस्थावरान्त विचित्र जगच्छरीरोऽवतिष्ठत इत्यनुसन्धानाच
मामुपासते' इति भाषितम् । तादृशसर्वप्रकारविशिष्टैकब्रह्म-
णोऽनुसन्धाने वासुदेव मन्त्रस्य तात्पर्यमिति तात्पर्यचन्द्रिकायां
प्रदर्शितम् । अत एव भगवता 'वासुदेवः सर्वमिति प्रपद्यते'
इत्युक्तमिव । सर्वविशिष्टैक विशेष्यब्रह्मज्ञानं सम्यग्दर्शनम् ।
तादृशज्ञानेनैकरसता, शान्तिश्च सम्यक्सिङ्ख्येतामिति शा-
ण्डिल्य श्रुतिः स्पष्टं ब्रवीति । सर्वभूतानां ब्रह्मात्मकत्वेनानु-
सन्धानं सर्वत्र समदर्शनमावहति मिवामित्रकथां कथाशे-
षतां नयंतीत्यशेषसाधूपमानभूतप्रह्लादस्यानुभवः । जगतो
ब्रह्मशरीरत्वं श्रुतिः श्रावयतीति न केऽपि विप्रतिपद्यन्ते ।
शरीरत्वं चान्तः स्थितेन ब्रह्मणा नियाम्यत्वरूपमिति 'यः
पृथिव्यां तिष्ठन् पृथिवीमन्तरो यमयति यस्य पृथिवी शरी-
रम्' इत्यायन्तर्यामिब्राह्मणे स्पष्टं श्राव्यते । परमात्मनियाम्यं
कृत्स्नं जगदिति सर्वेऽभ्युपगच्छन्ति । शरीरप्रतिसंबन्धी
 
-
 

 
P