This page has been fully proofread once and needs a second look.

' जगत्सर्वेवं शरीरं ते' इति प्राचेतसगुरोर्ब्रह्मणो वचनं वर्ण्यते
प्राचेतसेन रामाभिधानं हरिं प्रति । 'तत्रैकस्थं जगत्कृत्स्नं
प्रविभक्तमनेकधा । अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥'
इति भगवतो विश्वरूपे कृत्स्नं विश्वमर्जुनो ददर्श । शिशोः
कृष्णस्य वक्त्रे विश्वं ददर्श यशोदा । सार्वात्म्यविशिष्टभग-
वदैकात्म्यप्रत्ययसारैर्मुमुक्षुभिर्भवितव्यम् । तथैव तैः सदा अनु-
सन्धानं कार्यम् । ' ऐकात्म्यप्रत्ययसारं शान्तिसमृद्धममृतान-
न्दम्' इति माण्डूक्योपनिषद्विशिष्टैकात्म्यानुभवेनैकरस्यं बो-
धयति । इदमेव विशिष्टाद्वैतदर्शनं भवति । 'अशेषचिद-
चित्प्रकारं ब्रह्मैकमेव तत्त्वम्' इति वदन्त आचार्या एतदेव
तत्त्वदर्शनं विदधति । 'पृथक्त्वेन तु यज्ज्ञानं नानाभावा-
न्पृथग्विधान् । वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥'
इति पृथक्त्वज्ञानं भगवता राजसत्वेन जगर्हे । 'सर्वभूतेषु
येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं
विद्धि सात्त्विकम् ॥' इति सात्त्विकज्ञानं लक्ष्यते भगवता ।
तदेव सम्यग्दर्शनं स्यादिति भगवन्मतम् । तच्च जगद्विशिष्ट-
ब्रह्मण एकत्वेन ऐकात्म्यप्रत्ययसारतयानुभव: स्यात् । एतस्य
श्लोकस्यैवमर्थवर्णनं शक्यम् । 'ज्ञानयज्ञेन चाप्यन्ये यजन्तो
मामुपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतो मुखम् ॥'