This page has not been fully proofread.

२०
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
-
 
नेति स्पष्टमुक्तम् । भूमविद्या सर्वस्य जगतस्तदुत्पन्नत्वं श्राव-
यति । सद्विद्या चास्य जगतः सन्मूलत्वसदायतनत्वसत्प्रति-
ष्ठत्व प्रदर्शनेन सदात्मकत्वं निगमयति । तदेव जन्मादिहेतुत्वं
तज्जलानिति सङ्ग्रहेण सूत्र्यते शाण्डिल्यश्रुत्या । आत्मनः
सर्वसुखयान्वेष्टव्यतां पत्नचा उपदिशन्याज्ञवल्क्य: 'इदं
सर्वं यदयमात्मा' इत्यात्मनः सर्वात्मकतां बोधयति । 'सत्यं
ज्ञानमनन्तं ब्रह्म' इति लक्षितस्य ब्रह्मण आनन्त्यरूपनिरति-
शयबृहत्त्वोपादनाय सर्वस्य तत्संभूतत्वं दर्शयति आत्मन
आकाश: संभूतः' इत्यादिना । य आकाशस्तार्किकैर्नित्यत्वेन
निर्णीतः सोऽप्याकाश एतस्मादात्मनः संभूत इति प्रथमं
प्रदर्श्यते । यद्यपि तार्किका ईश्वरम् तस्य निमित्तकारणत्वं
च मन्वते, न ते ब्रह्म निरतिशयबृहत्त्वेन मन्वते, जगतस्त-
दुपादेयत्वानभ्युपगमात् उपादानत्वानभ्युपगमे वस्तुपरि
च्छेदस्यापरिहार्यत्वात् तत्परिच्छेदे सत्यानन्त्यरूपानरतिश-
वबृहत्त्वस्यासिद्धेः ॥
 
,
 
2
 
इदमेव चारु व्यनक्ति श्रुति : ' नावेदविन्मनुते तं बृहन्तम्
इति । अवेदवित्तार्किकादिर्यद्यपि ब्रह्म मनुते, तद्बृहन्न मनुत
इति तदर्थः । वैश्वानरविद्या स्पष्टमेव स्वर्लोकवाताम्बरादर्भग-
बदवयवत्वं ब्रवीति । मुण्डके च बुभ्वाद्यायतनत्वं वर्ण्यते