This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 
१९
 
परोक्षितं स्यात् । कारणत्वविशिष्टं तदुपलक्षितं वा ब्रह्म

जिज्ञास्यत्वेन विहितम् ' तद्विजिज्ञासस्व' इति । तादृश-

स्य ब्रह्मणो ध्येयत्वं विहितम् ' कारणं तु ध्येय: '

इति । उभयविभूतिविशिष्टं ब्रह्मैव फलदशायामनुभाव्यम् ।

' सर्वं खल्विदं ब्रह्म तज्जलान्' इति शाण्डिल्यश्रुतिः

कृत्स्त्रस्य जगतो ब्रह्मात्मकतयानुसन्धानमुपदिशति तज्जला-

निति हेतूपन्यासपूर्वकम् । दहरविद्या यद्यप्यन्तःकलेबरं

सुसूक्ष्मं दहराकाशमन्वेष्टव्यत्वेन विदधाति, ' उभे अस्मिन्

द्यावापृथिवी अन्तरेव समाहिते' ' यावान्वा अयमाकाशस्ता-

वानेषोऽन्तर्हृदय आकाशः' इत्यादिना तस्य निरतिशयबृहश्त्त्व-

मपि कथयति । श्रीशंकराचार्याश्च तदधिकरणभाष्ये 'अस्मि-

न्कामा: समाहिताः, एष आत्मापहतपाप्मा' इति हि प्रकृतं

द्यावापृथिव्यादिसमाधानाधारमाकाशमाकृष्य ' अथ य इहा-

त्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान्' इति समुच्चयार्थेन

चशब्देनात्मानं कामाधारमाश्रितांश्च कामान्विज्ञेयान्वाक्यशेषो

दर्शयति । तस्माद्वाक्योपक्रमेऽपि दहर एवाकाशो हृदयपुण्ड-

रीकाधिष्ठानः सहैवान्तस्थैः समाहितैः पृथिव्यादिभिः स

त्यैश्च कामैर्विज्ञेय उक्त इति गम्यत इत्यभाषिषत । कृत्स्नवि-

शिष्टब्रह्मण उपासनं तेषां संमतम् । विशेषणत्वञ्चाधेयत्वादि-