This page has not been fully proofread.

H
 
॥ श्रीः ॥
 
॥ दशावतारस्तोत्रम् ॥
 
श्रीनिवासं परं ब्रह्म तन्नाम्नश्च गुरूत्तमान् ।
वन्दे भागवतान्सर्वान्देशिकाशयलब्धये ॥
 
व्यङ्ग्यप्रधाना गम्भीरा निगमान्तगुरोगिरः ।
दर्शयन्तु प्रसादेन कृत्स्नं स्वं भावमञ्जसा ॥
 
इदं स्तोत्रं कविहृदयानुसारेण सम्यग्भावित मदृश्यब्रह्माभ्य-
क्षणे रसस्वरूप ब्रह्मरसस्य भावुकहृदयसंक्रान्तौ चोपकुर्यादिति
प्रदर्शयिष्यते । अधोक्षजस्य ब्रह्मणः सकलमनुजनयनविषयी-