This page has been fully proofread once and needs a second look.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
जोराशेर्भगवत्प्रभाया वक्षःस्थलविद्योतमानाया अजिनमात्रेण

वैरोचनसदसि संवरणं चात्यन्तदुर्घटम् । दम्पती दिदृक्ष्ये .

यातां भक्तजनैः । तद्दृष्टिगोचरीभवनं मुख्यं प्रयोजनम् ।

इतरदसुरनिरसनादिकं तदानुषङ्गिकं चशब्दसंगृहीतम् । ' श्रियं

लोके देवजुष्टामुदाराम्' इति श्रुतिश्चान्वर्थनीया । यथा वै-

कुण्ठे परे लोके श्रिया सार्धममेयात्मास्ते, तथास्मिन्नरे

मानुषे लोके देव्या सह मेयात्मामेयात्मा चावतरति । करुणा

खल्बवतारे निमित्तम् । अवतारकार्यं कृत्स्नं करुणाकार्यम् ।

तथ करुणामिव रूपिणीं तां विना न घटेत ॥
 
१८
 
-
 

 
अस्मिंस्तोबेत्रे आचार्यैर्मुख्यतया प्रतिपिपाद्धिषितं किमिति

चेदवतारभूमिकानामपि ब्रह्मवगृद्बृहत्त्वम् । सशैलनकाननार्ण -

वस्य जगतो ब्रह्मशररित्वेन तच्छरीरैकदेशत्वेन च प्रदर्शनं

ब्रह्मणो बृहत्त्वमुपपादयेत् । यदि ब्रह्मणो भूमिकानामेव वा-

ङ्
मनसातीतं बृहत्त्वमध्यक्ष्येत किमु वाच्यं भूम्नस्तस्य निरति-

शयबृहस्त्त्वे । ब्रह्मलक्षणवर्णनशब्दैर्निरतिशयबृहत्त्वमुपलक्ष्य-

मिति भाषितम् । यदा लक्ष्यं ब्रह्मैवावतरति तेनापि

निरतिशयबृहत्त्वापलक्षणं न्याय्यम् । कृत्स्त्रस्य जगत-
स्व

स्त
दाधेयत्वतच्छेषत्वतान्नियाम्यत्वानां सकलमनुजनयनविष-

यतया प्रदर्शनेन विश्वस्य शास्त्रादवगतं ब्रह्मशरीरत्वम-