This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
जोराशेर्भगवत्प्रभाया वक्षःस्थलविद्योतमानाया अजिनमात्रेण
वैरोचनसदसि संवरणं चात्यन्तदुर्घटम् । दम्पती दिदृक्ष्ये.
यातां भक्तजनैः । तद्दृष्टिगोचरीभवनं मुख्यं प्रयोजनम् ।
इतरदसुरनिरसनादिकं तदानुषङ्गिकं चशब्दसंगृहीतम् । ' श्रियं
लोके देवजुष्टामुदाराम्' इति श्रुतिश्चान्वर्थनीया । यथा वै-
कुण्ठे परे लोके श्रिया सार्धममेयात्मास्ते, तथास्मिन्नवरे
मानुषे लोके देव्या सह मेयात्मामेयात्मा चावतरति । करुणा
खल्बवतारे निमित्तम् । अवतारकार्य कृत्स्नं करुणाकार्यम् ।
तथ करुणामिव रूपिणीं तां विना न घटेत ॥
 
१८
 
-
 
अस्मिंस्तोबे आचार्यैर्मुख्यतया प्रतिपिपाद्धिषितं किमिति
चेदवतारभूमिकानामपि ब्रह्मवगृहत्त्वम् । सशैलबनकाननार्ण -
वस्य जगतो ब्रह्मशररित्वेन तच्छरीरैकदेशत्वेन च प्रदर्शनं
ब्रह्मणो बृहत्त्वमुपपादयेत् । यदि ब्रह्मणो भूमिकानामेव वा-
मनसातीतं बृहत्त्वमध्यक्ष्येत किमु वाच्यं भूम्नस्तस्य निरति-
शयबृहस्वे । ब्रह्मलक्षणवर्णनशब्दर्निरतिशयबृहत्त्वमुपलक्ष्य-
मिति भाषितम् । यदा लक्ष्यं ब्रह्मैवावतरति तेनापि
निरतिशयबृहत्त्वापलक्षणं न्याय्यम् । कृत्स्त्रस्य जगत-
स्वदाधेयत्वतच्छेषत्वतानियाम्यत्वानां सकलमनुजनयनविष-
यतया प्रदर्शनेन विश्वस्य शास्त्रादवगतं ब्रह्मशरीरत्वम-