This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 
१७
 
ऽप्यपराधी तत्र । नाप्यार्त: । आर्त्यपराधात्यन्ताभावे क्षमादया-

दिजीवितेन भगवता कथमात्मधारणं लभ्येत । तदला मेभेन क्षुधा-

र्
तो भगवानार्तिभूयिष्ठामपराधभूयिष्ठां बहुन्नवतीह्वन्नवतीं भुवमवत-

रति । ताभ्यां संपन्नानाढ्यानस्मांश्च याचते तदन्नं क्षुन्निवृ-

त्
तये । तं चाभ्यागतं वयं सम्यगाराधयितुमर्हामस्त न्निकटे -
ऽ-
स्मदार्तिनिवेदनेन ' क्षमस्व' इत्युक्तिपूर्वक मस्मदपराधसहस्रो-

पहरणेन च ।
 

 
अवतरन्तं च देवं देवी छायेवानुगच्छति । यथा सूर्यस्य

देवी छाया, तथा 'सूर्यस्यापि भवेत्सूर्यः' इत्युक्तसूर्यसूर्यस्

श्री: छाया । यथा स नटो भवति तथा सा नटी भवति ।

यथा सर्वगतो विष्णुस्तथा चेयम् । यथा स सर्वयोनिषु ग-

च्छति तथेयमपि । तदपि व्यज्यत इव सर्वगतशब्देन ।

विभोर्विष्णोर्विभवपरिग्रहस्तया सहैव । 'यस्या वीक्ष्य मुखं

तदिङ्गित पराधीनो विधत्तेऽखिलं क्रीडेयं खलु नान्यथास्य

रसदा स्यादैकरस्यात्तथा ।' ब्रह्मचर्याश्रमस्थस्यापरिग्रहत्वनि -
र्ब-
न्धोऽपरिहार्यः । तथापि तां न जहाति । यत्तदाश्रमलिङ्गं

कृष्णाजिनं तेनैव विद्युद्द्योतवतीं वक्षःस्थलगतां तां संवृणोति ।

सर्वलोकस्य पश्यतो वामनेनाणीयसा विविक्रमभवनं नाडु-
द्भु-
तम् । ब्रह्मचारिण: सपत्नीकत्वम्, निरतिशयदीप्तिमत्यास्त्रे-