This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
१७
 
ऽप्यपराधी तत्र । नाप्यार्त: । आर्त्यपराधात्यन्ताभावे क्षमादया-
दिजीवितेन भगवता कथमात्मधारणं लभ्येत । तदला मेन क्षुधा-
तो भगवानार्तिभूयिष्ठामपराधभूयिष्ठां बहुन्नवती भुवमवत-
रति । ताभ्यां संपन्नानाढ्यानस्मांश्च याचते तदन्नं क्षुन्निवृ-
तये । तं चाभ्यागतं वयं सम्यगाराधयितुमर्हामस्त न्निकटे -
स्मदार्तिनिवेदनेन ' क्षमस्व' इत्युक्तिपूर्वक मस्मदपराधसहस्रो-
पहरणेन च ।
 
अवतरन्तं च देवं देवी छायेवानुगच्छति । यथा सूर्यस्य
देवी छाया, तथा 'सूर्यस्यापि भवेत्सूर्यः' इत्युक्तसूर्यसूर्यस्य
श्री: छाया । यथा स नटो भवति तथा सा नटी भवति ।
यथा सर्वगतो विष्णुस्तथा चेयम् । यथा स सर्वयोनिषु ग-
च्छति तथेयमपि । तदपि व्यज्यत इव सर्वगतशब्देन ।
विभोर्विष्णोर्विभवपरिग्रहस्तया सहैव । 'यस्या वीक्ष्य मुखं
तदिङ्गित पराधीनो विधत्तेऽखिलं क्रीडेयं खलु नान्यथास्य
रसदा स्यादैकरस्यात्तथा ।' ब्रह्मचर्याश्रमस्थस्यापरिग्रहत्वनि -
न्धोऽपरिहार्यः । तथापि तां न जहाति । यत्तदाश्रमलिङ्गं
कृष्णाजिनं तेनैव विद्युद्दयोतवतीं वक्षःस्थलगतां तां संवृणोति ।
सर्वलोकस्य पश्यतो वामनेनाणीयसा विविक्रमभवनं नाडु-
तम् । ब्रह्मचारिण: सपत्नीकत्वम्, निरतिशयदीप्तिमत्यास्त्रे-