This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 

 
जयति कितवः कोऽपि कौमारहारी' इत्याचार्यैर्व्यज्यते 4

'
ब्रह्म दासाः ।' दास्यं सर्वप्रकारेण भगवान्सर्वप्राणिनां करो-

तीति बहुधा विचित्रं प्रदर्श्यते भगवतैव गीतासु । अन्तरव

यवेष्ववस्थायास्मासु स्वपत्सु वैश्वानररूपो भगवान्भुक्तमन्नं

पाचयति । बाह्यपाचका लोके भृत्यतया संपाद्यन्तेऽधिकम-

धिकं वेतनं प्रदाय । अयमन्तःपाचकः सर्वेषां प्राणिनाम् ।

ईदृशं स्वयं दास्यमाश्रितं भगवन्तं वीक्ष्य तद्विषये स्वयं दासा

भवन्ति तपस्विन इत्युच्यते ' स्वयं दासास्तपस्विनः' इति ।

एषोऽप्यर्थो वर्णयितुं शक्य: सूक्ष्मदृष्टीनां तपस्विनां भगव-
स्

त्
कृतान्तर्दास्यादिव्यापारो दृष्टिगोचरो भवति । तद्दृष्ट्वा ते तस्य

स्वयं दासा भवन्ति । समुद्रशायिना भगवता स्ववासस्थानरू-

पसन्निकर्षवन्तं जलधिमधिकरणीकृत्य तत्र प्रथमं त्रयोऽवताराः

परिजगृहिरे । अतिनिहीनयोनिष्ववतार अधोगमनरूपावता.
-
रस्य काष्ठां निर्वहेत् । अगाधजलधाववतीर्णोऽतिदुःसाधमवत-

रणं निर्वर्तयेदित्युच्येत । प्रत्यवतारमजहङ्क्रद्भूमत्वं निरतिशयवै-

भवं च प्रदर्श्यतेऽस्मिन्स्तोत्रे ॥
 
१५
 

 
मेघभूतेन भगवता निरवधिकरुणाभारखिन्नत्वेनावतीर्यंत
यत
इति चारु व्यज्यते श्रीमच्छङ्कराचार्यै र्भगवदवतारविषयश्लोके ।

'
मत्स्य: कूर्मो वराहो नरहरिणपतिर्वामनो जामदग्न्यः का-