This page has not been fully proofread.

१४
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
1
 
रिहं करोति विभुः । सर्वत्वाभावे कथं ब्रह्मत्वसंभवः
सर्वत्रनिर्वाहार्थ ब्रह्मणो दाशदासकितवत्वादिकीर्तनं श्रुत्या
तच सामानाधिकरण्यमंशांशिभावेनेति स्पष्टमुच्यते बादराय-
गेनांशाधिकरणप्रथमसूत्रेण । तावता तादात्म्यरूपसामानाधि
करण्यं नोपपाद्येत । तादृशं च सामानाधिकरण्यं समर्थ्यते
मनिकूर्मवराहाद्यात्मतयावतर्णित्वेन अवतारभूतमीनादिदे-
हेषु न भगवता जीवेनात्मनानुप्रवेश: । न स्वांशभूतजीवद्वारा,
किं तु साक्षात्पूर्णेन स्वेनैव । विहारस्वाच्छन्यादिति यदुक्तं
तद्वोध्यते 'देवो नः' इति देवशब्देन । तिर्यग्भवनस्यातिनि
इनित्वाद्दुर्घटत्याच वट्यवे प्राथमिकैस्मिभिरवतारैः । 'ब्रह्म
दाशा' इति श्रुतिर्विस्मयते भगवतो दाशसा मानाधिकरण्यं
वीक्ष्य । तिष्ठतु दाशैः शरीरशरीरिभावादिना तान्त्रिकं सा-
मानाधिकरण्यं मुख्यममुख्यं वेति वितर्कितं वादिभिः । तैर्दा-
शैजलैगृह्य माणस्ततोऽपि निहीनो मत्स्य एव भवानि, तद्यो-
निना मुख्यमविगीतं सामानाधिकरण्यं लभेयेति प्रथमं मत्स्यो
भवतीव भगवान् । दाशानां मत्स्यमांससतत संसर्गेण दुर्ग-
न्धवस्त्वं तन्निहीनत्वे हेतुः । संसर्गेण तन्निहीनतापादक मत्स्य
 
-
 
भविताहमिति भगवदिच्छा प्रादुर्भवति । 'ब्रह्म कितवा : '
इति श्रुतिः स्वयं मुख्यकितवोऽपि भवतीति 'गोपस्त्रीणां