This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 
१३
 
रूपस्वभूमा न त्यक्ष्यत इति बोध्यते । विभुर्विष्णुः खल्ववत
बत-
रति स्वं स्वभावमविहायाय । भूमा च स्वस्वभावः । विष्ण्वव.
-
तारे तद्वैभवमध्यवतरति । अन्यथावतीर्णो न विष्णुः स्यात् ।

'
वरये वैष्णववैभवावतारम्' इत्यतिमानुषस्तवप्रथमश्लोके

श्रीवत्साङ्कमिश्रैर्भगवद्वैभवस्यावतारो व्यज्यत इव । 'अनासी-

दद्दोषो जहदवधिषाहुङ्गुण्यमहिमा विहारस्वाच्छन्द्याद्विभुरिह
दु

धानो विभवताम् । तिरश्चामप्येतैः कमठकि टिपाठनिपतग-

प्रकारैराकारैः परिबृढतमत्वं दृढयति ।' इत्याचार्या : सङ्क

ल्पसूर्योदये । सर्वैरुपसत्तुं योग्यं भगवन्तं दोष एक एव ना-

सीदेदिति व्यज्यते 'अनासीदद्दोष : ' इति । अशेषशरण्यो

ऽपि न दोषशरण्यः । न दोषास्तस्मिन्शरणं लभेरन् । आस
श्रे
-
न्ने
षु दोषं मृष्येत् 'दोषो यद्यपि तस्य स्यात्' इति । आसी-

दन्तं दोषं तु न मर्षयेत् : न तस्य किमप्यननुकूलवेदनीयं

हेयं भवति । लोके हेयभूता रोषादयोऽपि तस्य निःसीम-

शक्ते: सुनिरसविषये प्रीतये स्युः । विभोर्विष्णोर्विभवरूपाव-

तारो युक्त इति व्यज्यते 'विभुरिह दधानो विभवताम्'

इति । ब्रह्म परिबृढं सर्वतः' इति यास्कनिर्वचनं ब्रह्मश-

ब्दस्य । ब्रह्म ततमम्' इति श्रुतिः । तल्लक्षणसमन्वयार्थं

स्वस्य परिबृढतमत्वं दृढयितुं तिर्यग्भूतसर्वप्राणिप्रकाराकारप-
6
 
P